बालेन्द्र शाहः अद्य संसदीय दलस्य नेता चेष्यते - आरएसपी
काठमांडूः, 26 मार्चमासः (हि.स.)। राष्ट्रिय-स्वतन्त्र-दलम् (आरएसपी) अद्य सायं चतुर्वादने केन्द्रीय-समितेः उपवेशनम्आयोजयति। तदनन्तरं संसदीय-दलस्य अपि उपवेशनाऽनुष्ठास्यते, यस्यां संसदीय-दल-नेतुः चयनं क्रियते। पार्टी इत्युक्तवती यत् एतासु बैठकासु सं
बालेन्द्र शाह


काठमांडूः, 26 मार्चमासः (हि.स.)।

राष्ट्रिय-स्वतन्त्र-दलम् (आरएसपी) अद्य सायं चतुर्वादने केन्द्रीय-समितेः उपवेशनम्आयोजयति। तदनन्तरं संसदीय-दलस्य अपि उपवेशनाऽनुष्ठास्यते, यस्यां संसदीय-दल-नेतुः चयनं क्रियते।

पार्टी इत्युक्तवती यत् एतासु बैठकासु संसदीय-दल-नेतुः चयनस्य सहितं अन्येषां महत्त्वपूर्ण-विषयाणां विषये अपि चर्चा भविष्यति। अद्य सिंहदरबार-स्थले नव-निर्वाचित-सांसदैः पद-गोपनीयता-शपथग्रहणानन्तरं आरएसपी-केन्द्रीय-समितिः संसदीय-दलस्य च उपवेशनम्आहूय बालेन्द्र-शाहं संसदीय-दलस्य नेतृरूपेण चयनं करिष्यति।

नेतृ-चयनानन्तरं पार्टी संविधानस्य अनुच्छेद ७१(१) अनुसारं राष्ट्रपतेः कार्यालये प्रधानमन्त्रि-पदस्य नाम-प्रस्तावं प्रस्तुतं करिष्यति। बालेन्द्र-शाहस्य श्वः शुक्रवासरे प्रधानमन्त्रीरूपेण पद-गोपनीयता-शपथग्रहणस्य तैयारी प्रवर्तते।

अस्यवारस्य शपथग्रहण-समारोहः विशेषः भविष्यति। शपथग्रहण-काले हिन्दू-बटुकैः स्वस्तिवाचनं क्रियते, बौद्ध-लामाभिः मङ्गलध्वनिः पठ्यते। अपि च सप्त-ब्राह्मणैः शङ्खनादः क्रियते।

शपथग्रहणस्य मुहूर्तः अपि निश्चितः अस्ति। बालेन्द्र-शाहः तस्मिन् एव काले शपथं गृह्णाति, यस्मिन् काले भारतस्य उत्तरप्रदेश-राज्ये अयोध्यायां रामनवमी-अवसरे राममन्दिरे विशेष-पूजायाः मुहूर्तः निर्धारितः अस्ति।

---------------

हिन्दुस्थान समाचार