Enter your Email Address to subscribe to our newsletters

-अनिलकोषाणाम् आपूर्ति प्राथमिकताधारेण भविष्यति वितरणम्
रायपुरम्, 26 मार्चमासः(हि.स.)।प्रदेशे गैस-उपलब्धता-वितरण-व्यवस्थयोः सम्बन्धे तेल-कम्पन्याः क्षेत्रीय-प्रबन्धकैः सह खाद्य-विभागस्य सचिवा श्रीमती रीना बाबा साहब कंगाले नवा-रायपुर-स्थिते मन्त्रालये (महानदी-भवने) अद्य समीक्षा-सभा आयोजितवती।
अस्यां सभायां एलपीजी-उपलब्धता, वितरण-प्रणाली तथा उपभोक्ता-संस्थानानां प्रति प्राथमिकतया गैस-आपूर्तेः सुनिश्चितीकरणार्थं महत्वपूर्णाः निर्णयाः गृहीताः।
सभायां निर्णीतं यत् वाणिज्यिक-एलपीजी-उपभोक्ता-संस्थानानां प्रतिष्ठानानां च कृते गत-मासस्य कुल-उपभोगस्य अधिकतमं २० प्रतिशत-पर्यन्तं एव एलपीजी-प्रदायः भविष्यति। तेन सह नगरीय-क्षेत्रेषु २५ दिवसानां तथा ग्रामीण-क्षेत्रेषु ४५ दिवसानां मध्ये एलपीजी-रिफिलस्य ऑनलाइन-आवेदन-सेवा उपलब्धा करणीयेति निर्देशाः दत्ताः, येन उपभोक्तृभ्यः समये गैस-प्राप्तिः सुलभा भवेत्।
जिलाप्रशासनाय सर्वेषां एलपीजी-वितरकाणां कार्यालयेषु संग्रहशालासु च पुलिस-होमगार्ड-सहायतया सुरक्षा-व्यवस्था सुनिश्चितुं निर्देशाः दत्ताः, येन संमर्द-व्यवधानादयः न उत्पद्येरन्। सह वितरकान् प्रति अपि निर्देशाः दत्ताः यत् ते स्वदूरभाष-संख्याः सक्रियाः धारयन्तु तथा उपभोक्तृणां शिकायतानां शीघ्रं समाधानं कुर्वन्तु।
उपलब्ध-भण्डारं दृष्ट्वा विविध-संस्थानानां कृते प्राथमिकता-श्रेण्यः अपि निर्धारिताः। तासु शैक्षणिक-संस्थानानि चिकित्सालयाः, सैन्य-अर्द्धसैन्य-शिविराः, कारागाराः, पथिकाश्रयाः, समाज-कल्याण-विभागस्य संस्थानानि, रेल्वे-विमानतल-कैण्टीनाः, शासकीय-कार्यालयाः, अतिथिगृहाणि, पशु-आहार-उत्पादक-एककाः तथा भोजनालयाः अन्तर्भवन्ति।
सभायां एतत् अपि निश्चितं यत् वाणिज्यिक-एलपीजी-भण्डारस्य उपलब्धता-वितरणयोः दैनिक-समीक्षा तेल-कम्पन्याः करिष्यन्ति तथा तस्य विवरणं प्रतिदिनं विभागाय प्रदास्यन्ति।
अस्मिन् अवसरे खाद्य-नागरिक-आपूर्ति-विभागस्य संचालिका डॉ. फरिहा आलम, छत्तीसगढ़-राज्य-खाद्य-आयोगस्य सदस्य-सचिवः राजीव कुमार जायसवाल, इण्डियन-ऑयल-कॉरपोरेशनस्य मण्डल-एलपीजी-प्रमुखः श्रीपाद बक्षी, भारत-पेट्रोलियम-कॉरपोरेशनस्य प्रादेशिक-प्रबन्धकः दिलीप मीणा, हिन्दुस्तान-पेट्रोलियम-कॉरपोरेशनस्य क्षेत्रीय-प्रबन्धकः मंगेश डोंगरे इत्यादयः अन्ये अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार