छत्तीसगढ-लोक-सेवा-आयोगस्य प्रारम्भिक-परीक्षायां ३९२१ अभ्यर्थिनः चयनिताः
रायपुरनगरम्, २६ मार्चमासः (हि.स.)। छत्तीसगढ़-लोक-सेवा-आयोगेन राज्य-सेवा-परीक्षा २०२५ इत्यस्य प्रारम्भिक-परीक्षायाः परिणामः गत-रात्रौ प्रकाशितः। अस्यां परीक्षायां सम्मिलिताः अभ्यर्थिनः आयोगस्य आधिकारिक-जालपुटे psc.cg.gov.in इत्यत्र गत्वा स्व-परिणामं
छग लोक सेवा आयोग


रायपुरनगरम्, २६ मार्चमासः (हि.स.)। छत्तीसगढ़-लोक-सेवा-आयोगेन राज्य-सेवा-परीक्षा २०२५ इत्यस्य प्रारम्भिक-परीक्षायाः परिणामः गत-रात्रौ प्रकाशितः। अस्यां परीक्षायां सम्मिलिताः अभ्यर्थिनः आयोगस्य आधिकारिक-जालपुटे psc.cg.gov.in इत्यत्र गत्वा स्व-परिणामं द्रष्टुं शक्नुवन्ति।

राज्य-सेवायाः प्रारम्भिक-परीक्षा २२ फरवरीमासे २०२६ तमे दिने अभवत्। लिखित-परीक्षा-परिणामस्य आधारेण विज्ञापित-पदानां १५-गुणपर्यन्तं अर्थात् ३९७५ अभ्यर्थिनः चयनीयाः आसन्, किन्तु वर्गानुसार-अभ्यर्थिनां उपलब्धतायाः आधारेण आहत्य ३९२१ अभ्यर्थिनः मुख्य-परीक्षायै चयनिताः।

आयोगस्य अनुसारं मुख्य-परीक्षा १६ मईमासतः १९ मईमासपर्यन्तम् आयोजिता भविष्यति। राज्य-सेवा-प्रारम्भिक-परीक्षा २०२५ इत्यस्य परिणामः, यस्मिन् अभ्यर्थिनः रोल-संख्या, जन्म-तिथिः, वर्गः तथा कट-ऑफ-अङ्काः समाविष्टाः सन्ति, आयोगस्य अधिकृत-जालपुटे www.psc.cg.gov.in इत्यत्र स्थापिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता