Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 26 मार्चमासः (हि.स.)।
असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा गुरुवासरे प्रसिद्धस्य साहित्यकारस्य मित्रदेव महन्तस्य पुण्यतिथौ तस्मै गाढां श्रद्धाञ्जलिं समर्पितवान् तथा असमिया-भाषा-साहित्ययोः प्रति तस्य अतुलनीयं योगदानं स्मृतवान्।
मुख्यमन्त्री स्वस्य सामाजिक-माध्यम-सन्देशे उक्तवान् यत् महन्तेन स्वं सम्पूर्णं जीवनं असमिया-भाषा-साहित्ययोः सेवायां समर्पितम्। तेन समाजं शिक्षितम् यत् भाषा केवलं शब्दानां समूहः न, अपि तु समाजस्य राष्ट्रस्य च आत्मा भवति।
सः अग्रे उक्तवान् यत् “चिर सेनेही मोर भाषा जननी” इत्यनेन माध्यमेन महन्तेन भाषा-प्रेम्णः एका अमरा ज्योतिः प्रज्वलिता, या आगामिनीनां संततीनां निरन्तरं प्रेरणां दास्यति।
हिन्दुस्थान समाचार