गौरव गोगोई इत्यस्य कथितस्य पाकिस्तानसूत्रे मुख्यमंत्रिणः तीक्ष्णप्रहारः
गुवाहाटी, 26 मार्चमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा कांग्रेस-पक्षस्य नेता गौरव गोगोई इत्यस्य कथित-पाकिस्तान-संबन्धान् प्रति तीक्ष्णां टिप्पणीं कृतवान्, येन राज्यस्य राजनीतौ नूतनः विवादः उत्पन्नः। मुख्यमन्त्री गत-रात्रौ अस्म
Assam CM Dr Himanta Biswa Sarma talking to media मुख्यमंत्री डॉ हिमंत बिस्व सरमा पत्रकारों से बातचीत करते हुए


गुवाहाटी, 26 मार्चमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा कांग्रेस-पक्षस्य नेता गौरव गोगोई इत्यस्य कथित-पाकिस्तान-संबन्धान् प्रति तीक्ष्णां टिप्पणीं कृतवान्, येन राज्यस्य राजनीतौ नूतनः विवादः उत्पन्नः।

मुख्यमन्त्री गत-रात्रौ अस्मिन् विषये भाषमाणः निर्वाचन-शपथपत्रे सूचनां गोपितवतीति आरोपं कृतवान्। तेन उक्तं यत् गोगोई इत्यस्य पत्नीया पाकिस्तान-देशे स्थितस्य बैंक-खातस्य उल्लेखः शपथपत्रे न कृतः, यत् अत्यन्तं गम्भीरं विषयम् अस्ति, अस्मिन् विषये स्पष्टीकरणं दातव्यं च।

मुख्यमन्त्री परिहासरूपेण उक्तवान् यत् असमे कांग्रेस-पक्षस्य सरकारः न भविष्यति, अपि तु “पाकिस्ताने भवितुम् अर्हति,” इति, येन सत्तारूढ-भाजपा-विपक्षीय-कांग्रेस-पक्षयोः मध्ये वक्तव्य-युद्धं अधिकं तीव्रं जातम्।

तथापि, कांग्रेस-पक्षतः अद्यपर्यन्तं एतेषां आरोपाणां विषये काचित् आधिकारिक-प्रतिक्रिया न प्रकाशिताऽस्ति।

हिन्दुस्थान समाचार