लुरिनज्योति गोगोई इत्यस्य आयुषि विवादः, चक्रधर गोगोई इत्यस्य प्रशासनं कार्यवाहीं कर्तुं चेतितवत्
गुवाहाटी, 26 मार्चमासः (हि.स.)। राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्य (राजग) अभ्यर्थी चक्रधर गोगोई उक्तवान् यत् असम-जातीय-परिषदः (एजेपी) अध्यक्षेन लुरिनज्योति गोगोई नामाङ्कन-पत्रे घोषितायाः आयोः विषये कथिता विसङ्गतिः अस्ति। सः अवदत् यत् यदि आयुः गोपनस
Assam Assembly Election 2026. असम विधानसभा चुनाव 2026


गुवाहाटी, 26 मार्चमासः (हि.स.)।

राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्य (राजग) अभ्यर्थी चक्रधर गोगोई उक्तवान् यत् असम-जातीय-परिषदः (एजेपी) अध्यक्षेन लुरिनज्योति गोगोई नामाङ्कन-पत्रे घोषितायाः आयोः विषये कथिता विसङ्गतिः अस्ति। सः अवदत् यत् यदि आयुः गोपनस्य विषयः सत्यः सिद्ध्यति, तर्हि वैधानिकी कार्यवाही क्रियते।

तेन उक्तं यत् विभिन्नेषु निर्वाचन-प्रसङ्गेषु लुरिनज्योति गोगोई इत्यनेन प्रदत्तायाः आयोः विवरणेषु विसङ्गतिः दृष्टा अस्ति। तस्य मतानुसारं २०२१ असम-विधानसभा-निर्वाचने प्रस्तुत-शपथपत्रे तस्य आयुः ४३ वर्षाणि निर्दिष्टा आसीत्, किन्तु २०२४ लोकसभा-निर्वाचने सा ४५ वर्षाणि अभिलेखिता आसीत्।

गोगोई आरोपं कृतवान् यत् २०२६ निर्वाचनार्थं प्रस्तुते शपथपत्रे आयुः वर्धमानत्वेऽपि पुनः ४३ वर्षाणि इति उक्ता, येन सूचनायाः विश्वसनीयतायां प्रश्नः उत्पद्यते।

सः उक्तवान् यत् यदि एतत् सिद्ध्यति यत् जानपूर्वकं मिथ्या-सूचना प्रदत्ता अस्ति, तर्हि विषयः विधेः अधीनं नीत्वा यथोचित-कार्यवाही याच्यते।

हिन्दुस्थान समाचार