इतिहासस्य पृष्ठेषु २७ मार्चमास: — यवनान् आधुनिक-शिक्षया संयोजितवत: सर-सैयद-अहमद-खानस्य पुण्यतिथिः
इतिहासे २७ मार्चमास: नानाविधानां महत्त्वपूर्ण-घटनानां कृते प्रसिद्ध: अस्ति। अस्मिन्नेव दिने १८९८ तमे वर्षे महान् शिक्षाविद् समाज-सुधारकश्च सर-सैयद-अहमद-खानस्य निधनम् अभवत्। तेन भारतीय-मुस्लिमजनान् आधुनिक-शिक्षया संयोजयितुं महत्त्वपूर्णा भूमिका निर्
इतिहासस्य पृष्ठेषु २७ मार्चमास: — यवनान् आधुनिक-शिक्षया संयोजितवत: सर-सैयद-अहमद-खानस्य पुण्यतिथिः


इतिहासे २७ मार्चमास: नानाविधानां महत्त्वपूर्ण-घटनानां कृते प्रसिद्ध: अस्ति। अस्मिन्नेव दिने १८९८ तमे वर्षे महान् शिक्षाविद् समाज-सुधारकश्च सर-सैयद-अहमद-खानस्य निधनम् अभवत्। तेन भारतीय-मुस्लिमजनान् आधुनिक-शिक्षया संयोजयितुं महत्त्वपूर्णा भूमिका निर्वूढा।

सर-सैयद: न केवलं उर्दू-साहित्यस्य विद्वान् आसीत्, अपितु बहूनां भाषाणां ज्ञाता अपि आसीत्। सः शिक्षायाः महत्त्वं ज्ञात्वा मोहम्मडन-एङ्ग्लो-ओरिएण्टल-महाविद्यालयस्य स्थापनां कृतवान्, यत् अनन्तरं अलीगढ-मुस्लिम-विश्वविद्यालयरूपेण विकसितम्।

अद्य अलीगढ-मुस्लिम-विश्वविद्यालयः न केवलं भारतदेशे, अपितु विश्वस्यापि प्रमुख-शैक्षिक-केन्द्रेषु एक: अस्ति, यत्र विविध-देशेभ्यः छात्राः शिक्षां प्राप्नुवन्ति। सर-सैयद-अहमदखानस्य योगदानं भारतीय-शिक्षा-सामाजिक-सुधार-इतिहासे सदा स्मरणीयं भविष्यति।

महत्त्वपूर्ण-घटनाः

१६६८ — इङ्ग्लण्ड-देशस्य नृपेण चार्ल्स-द्वितीयेन बॉम्बेनगरं (अधुना मुम्बई) ईस्ट-इण्डिया-निर्माण्यै समर्पितम्।१८५५ — अब्राहमगेस्नरः ‘केरोसिन्’ (मृत्तिका-तैलस्य) पेटेण्ट-इति प्राप्तवान्।१९७७ — स्पेन-देशस्य टेनेरीफ-स्थले द्वे जम्बो-जेट-विमाने आपतिते, ५८३ जनानां मृत्यु:।१९९० — पश्चिमबङ्ग-राज्ये निंपुरा-स्थले बस-दुर्घटनायां ४१ जनाः विद्युताघातेन मृताः।१९९८ — अमेरिकादेशस्य खाद्य-औषध-प्रशासनम् ‘वियाग्रा’ नाम्न: औषधस्य अनुमतिं दत्तवान्।२००० — रूस-देशे व्लादिमीर-पुतिन् राष्ट्रपतित्व-निर्वाचनं विजितवान्।२००३ — रूस-देशेन ‘टोपोल् आर.एस.-१२ एम्’ प्रक्षेपास्त्रस्य परीक्षणं कृतम्।२००८ — ‘एण्डेवर’ अन्तरिक्षयानं सफलतया पृथिवीं प्रत्यागतम्।२०१० — भारतदेशेन ‘धनुष्’ तथा ‘पृथ्वी-२’ प्रक्षेपास्त्रयोः सफल-परीक्षणं कृतम्।२०११ — जापान-देशस्य फुकुशिमा-स्थले परमाणु-ऊर्जा-केन्द्रे विकिरणस्य अतिवृद्धिः अभवत्।

जन्म

१९१२ — विमल-प्रसाद-चालिहा — स्वतन्त्रता-सैनिकः, असम-राज्यस्य मुख्यमन्त्री च।१९१५ — पुष्पलता-दास: — समाज-सेविका, गांधीवादिनी, स्वतन्त्रता-संग्राम-सेनानी।१९२३ — धर्मपाल-गुलाटी — ‘एमडीएच’ मसाला-निर्माण्या: स्वामी।१९२३ — लीला-दुबे — प्रसिद्धा मानव-वैज्ञानिका, नारीवादी-विदुषी च।१९३६ — बनवारीलाल-जोशी — राजनीतिज्ञः, विभिन्न-राज्यानां राज्यपालः।१९९९ — मुरली-श्रीशङ्करः — दीर्घ-कूर्दन-क्रीडायाः भारतीय-क्रीडक:।

निधनम्

१९१५ — पण्डित-कांशीरामः — गदर-पार्टी-नेता, स्वतन्त्रता-संग्राम-वीरः।१९६८ — यूरी-गागरिन् — सोवियत-संघस्य वैमानिकः अन्तरिक्षयात्री च।२००० — प्रिया-राजवंशः — हिन्दी-चलच्चित्र-नटी।२००६ — भाई-मोहन-सिंहः — ‘रैनबैक्सी’ औषध-निर्माण्या' संस्थापकः।२०१५ — टी. सैलो — मिज़ोरम-राज्यस्य भूतपूर्व-मुख्यमन्त्री।

महत्त्वपूर्णः अवसरः

विश्व-रङ्गमञ्च-दिवसः

हिन्दुस्थान समाचार / अंशु गुप्ता