Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २६ मार्चमासः (हि.स.)। कांग्रेस-दलस्य वरिष्ठ-नेता तथा मध्यप्रदेशस्य पूर्व-मुख्यमन्त्री दिग्विजय-सिंहः अद्य गुरुवासरे उत्तरप्रदेशस्य अयोध्यां गमिष्यति। सः तत्र श्रीराम-जनमभूमि-मन्दिरस्य दर्शनं कृत्वा भगवत: श्रीरामस्य दर्शनं करिष्यति। राममन्दिरस्य निर्माणानन्तरं तस्य अयोध्यायाः एषा प्रथम-यात्रा भविष्यति।
दिग्विजय-सिंहस्य भोपालस्थित-कार्यालयेन प्रकाशितस्य कार्यक्रमानुसारं सः प्रातःकाले दिल्लीनगरात् एयर-इण्डिया-विमानेन अयोध्यां प्राप्स्यति, तत्र भगवत: श्रीरामस्य मन्दिरे पूजार्चनां कृत्वा ततः सः स्थलगत-मार्गेण लखनऊ-नगरं गमिष्यति।
उल्लेखनीयम् अस्ति यत् वर्षे २०२१ तमे दिग्विजय-सिंहः अयोध्यायां श्रीराम-मन्दिर-निर्माणार्थं १,११,१११ (एकलक्ष-एकादश-सहस्र-एकशत-एकादश) रूप्यकाणि दानरूपेण प्रदत्तवान्। सः एतत् धनाहरणपत्रं ‘श्रीराम-जनमभूमि-तीर्थ-क्षेत्र-ट्रस्ट्’ इत्यस्य नाम्ना प्रेषितवान्। तदा सः उक्तवान् यत् मन्दिरस्य पूर्ण-निर्माणानन्तरं प्रार्थनार्थं सः अवश्यं आगमिष्यति। तस्य कार्यालयेन सूचितम् यत् मन्दिरस्य मुख्य-निर्माण-कार्यं प्रायः पूर्णतां गतं अस्ति, अतः सः स्वीयं वचनं पूरयितुं अयोध्यां गच्छति।
दिग्विजय-सिंहस्य कार्यक्रमः
सः दिल्लीनगरात् प्रस्थित्य प्रातः ९:४० वादने अयोध्यां प्राप्स्यति तथा मध्याह्ने १:३० वादनपर्यन्तं राम-जनमभूमि-मन्दिरे श्रीरामस्य तथा हनुमान-गढी-मन्दिरे दर्शन-पूजनं करिष्यति। ततः परं सः स्थलगत-मार्गेण लखनऊ-नगरं प्रति प्रस्थितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता