Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 26 मार्चमासः (हि.स.)।
आगामिनि ९ एप्रिल् दिनाङ्के असम-राज्यस्य विधानसभाया सामान्यनिर्वाचनस्य सन्दर्भे भारतनिर्वाचनआयोगेन असमस्य जिलानिर्वाचनाधिकारिणः पुलिसाधीक्षकाः वरिष्ठपुलिसाधीक्षकाः पुलिसआयुक्ताः अन्ये च अधिकारीणः सह ऑनलाइन माध्यमेन समीक्षा प्रशिक्षणसभा आयोजिता।
गत रात्रौ निर्गतस्य आधिकारिकवक्तव्यस्य अनुसारं बुधवासरे आयोजितायां अस्यां सभायां मुख्यनिर्वाचनायुक्तः ज्ञानेश कुमारः १८ फरवरी दिनाङ्के असम-भ्रमणसमये दत्तं आश्वासनं पुनः उक्तवान् यत् निर्वाचनं हिंसा भय प्रलोभनरहिते वातावरणे आयोजितं भविष्यति येन प्रत्येकः मतदाता निर्भयतया निष्पक्षतया च स्वमताधिकारस्य प्रयोगं कर्तुं शक्नुयात्।
आयोगस्य वरिष्ठाधिकारीभिः जिला प्रशासनस्य विधिव्यवस्थासम्बद्धाधिकारिणां च तयारीणां समीक्षा कृता। सभायां मतदानकेन्द्रेषु न्यूनतमसुविधानां सुनिश्चितीकरणम् ईवीएम प्रबन्धनम् लॉजिस्टिक्स व्यवस्थापनम् निर्वाचनकर्मिणां प्रशिक्षणम् जब्तीकार्याणि विधिव्यवस्था मतदातृजागरूकता प्रचारप्रसारकार्यक्रमाः इत्यादिषु विषयेषु विस्तृतचर्चा अभवत्।
सभायां विशेषतः एतस्मिन् विषये बलं दत्तम् यत् प्रत्येकः प्रजाइडिंग अधिकारी मतदानसमाप्तेः अनन्तरं उपस्थितेभ्यः सर्वेभ्यः निर्वाचनएजेन्टेभ्यः मतदानलेखाविवरणयुक्तस्य ‘फॉर्म 17सी’ इत्यस्य हस्ताक्षरितां प्रति दातुं सुनिश्चितं करोतु।
अधिकारीणः निर्देशिताः यत् प्रजाइडिंग अधिकारिणां सम्यक् प्रशिक्षणं दीयताम् तथा प्रत्येकयोः द्वयोः घण्टयोः अन्तराले मतदानसमाप्तेः अनन्तरं च ‘ईसीआईनेट’ ऐप माध्यमेन मतदानप्रतिशतस्य सूचना अपलोड क्रियेत।
जिलानिर्वाचनाधिकारिणः अपि निर्देशिताः यत् मतदानात् न्यूनातिन्यूनं पञ्चदिनपूर्वं सर्वेषां मतदातॄणां मध्ये ‘वोटर सूचना पर्ची’ वितर्यताम् तथा प्रत्येकस्मै कुटुम्बाय ‘वोटर गाइड’ प्रदीयताम्। दृष्टिबाधितमतदातॄणां सुविधार्थं ब्रेलयुक्ता वोटर सूचना पर्ची अपि उपलब्धा क्रियते इति अपि सूचितम्।
सभायां अपि निर्देशः दत्तः यत् प्रत्याशिभिः राजनीतिकदलेभिः च प्रचारक्रियाकलापानां कृते ‘ईसीआईनेट’ इत्यस्य ‘सुविधा’ मॉड्यूल् माध्यमेन याचितानां अनुमतिनां २४ घण्टाभ्यन्तरे निष्पक्षतया पारदर्शितया च ‘प्रथमं आगतः प्रथमं लभते’ इति सिद्धान्तेन निपटारा क्रियेत।
अतिरिक्ततया राज्यस्य नदीतटीयेषु चरक्षेत्रेषु च स्थितेषु मतदानकेन्द्रेषु पर्याप्तसुरक्षा उद्धारव्यवस्था च सुनिश्चितीकरणे विशेषबलं दत्तम्।
हिन्दुस्थान समाचार