Enter your Email Address to subscribe to our newsletters


-गुरुग्राम जिला प्रशासनस्य 15वां रात्रिवासः खोड़ग्रामे जातः
-डीसी अजय कुमारः समस्याः अशृणोत् , अवसरे एव निस्तारणस्य निर्देशाः दत्ताः
-विभिन्न विभागाः शिविरमायोज्य योजनायाः अयच्छन् विस्तृतां सूचनाम्
गुरुग्रामः, 26 मार्चमासः (हि.स.)।ग्रामेषु रात्रि-निवास-कार्यक्रमस्य अन्तर्गतं जिला-प्रशासनं बुधवासरे रात्रौ पटौदी-खण्डस्य खोड़-ग्रामे स्थितम्। अस्मिन् अवसरः उपायुक्तः अजय कुमारः अधिकारिणां दलसमेतः ग्रामं गत्वा ग्रामवासिनां समस्याः अशृणोत् तथा सम्बद्ध-अधिकारिभ्यस्तत्रैव समाधानाय निर्देशान् अददात्। कार्यक्रमे विविध-विभागैः स्थापितैः स्थलेषु ग्रामवासिभ्यः शासनस्य जनकल्याणकारी-योजनानां विस्तृता सूचना अपि प्रदत्ता।
ग्रामे आगमने उपायुक्तस्य अजय कुमारस्य सरपञ्चः आजाद सिंहस्य नेतृत्वे ग्रामवासिभिः स्वागतं कृतम्। ततः अनन्तरं उपायुक्तेन विभागैः स्थापितानां शिविराणां निरीक्षणं कृतम् तथा व्यवस्थाः समीक्षिताः। कार्यक्रमे सरपञ्चः आजाद सिंहः ग्रामपञ्चायतस्य पक्षतः स्वाः अपेक्षाः उपायुक्तस्य सम्मुखे प्रस्तुतवान्।
उपायुक्तः अजय कुमारः ग्रामवासिनः आह्वयन् अवदत् यत् ते निर्भयतया स्वाः समस्याः प्रशासनस्य सम्मुखे प्रस्तुतयन्तु, येन तासां समयबद्धं समाधानं सुनिश्चितं भवेत्। अस्मिन् रात्रि-निवास-कार्यक्रमे महिलाभिः अपि सक्रियतया सहभागिता कृता तथा स्वाः समस्याः अधिकारिणां समक्षं स्थापिताः।
कार्यक्रमे ग्रामवासिनां उत्साहपूर्णा सहभागिता दृष्टा। अस्मिन् काले ग्रामवासिभिः स्वकीयाः व्यक्तिगताः तथा सामुदायिकाः समस्याः उपायुक्तस्य समक्षं स्थापिताः, यासु निवृत्तिवेतन, विद्युत्, स्वच्छता, पेयजल-संबद्धाः विषयाः प्रमुखाः आसन्। उपायुक्तेन सम्बद्ध-विभागानां अधिकारिणः निर्देशिताः यत् सर्वासां परिवादानां प्राथमिकतया शीघ्रं निवारणं क्रियताम्, येन ग्रामवासिनः योजनानां पूर्णं लाभं प्राप्नुयुः।
उपायुक्तेन उक्तं यत् प्रायः त्रिंशत् व्यक्तिगत-शिकायतानां श्रवणं कृतम्। यासां समस्याः तत्रैव समाधानयोग्याः आसन्, तासां तत्क्षणं निवारणं कृतम्, अन्येषां विषये तु निर्धारित-कालमर्यादायां समाधानार्थं स्पष्टाः निर्देशाः दत्ताः। उपायुक्तेन उक्तं यत् अस्य जिलायाः पञ्चदशमः रात्रि-निवासः खोड़-ग्रामे सम्पन्नः। एषः कार्यक्रमः प्रतिमासं विभिन्न-ग्रामेषु आयोजितः भविष्यति। रात्रि-निवास-काले परिवादानां निरीक्षणं क्रियते।
डीसीपी दीपकः युवभ्यः नशात् दूरं स्थितुं सन्देशं दत्तवान्। सः अवदत् यत् युवानः ग्राम-विकासे योगदानं ददतु, व्यशनात् दूरं तिष्ठन्तु तथा स्वस्य सर्वाङ्गीण-विकासे ध्यानं कुर्वन्तु। युवानः क्रीडासु संलग्नाः भवन्तु। ये नशे आसक्ताः सन्ति ते अपि नशं त्यक्त्वा उत्तम-नागरिकाः भवितुं शक्नुवन्ति। सः अपि उक्तवान् यत् व्यशन-संबन्धे कश्चित् अपि ग्रामवासी पुलिसाय सूचना दातुं शक्नोति तथा सूचनादातुः परिचयः पूर्णतया गोपनीयः भविष्यति। ग्रामवासिनः साइबर-अपराध-विषये अपि जागरूकाः कृताः।
हिन्दुस्थान समाचार