आईजीपी-कश्मीरः राम-नवमी-पर्वणि जनान् अभिनन्दितवान्, शान्ति-सद्भावनयोः शुभाशंसाः प्रदत्ताः
श्रीनगरम्, २६ मार्चमासः (हि.स.)। कश्मीर-क्षेत्रस्य आरक्षक-महानिरीक्षकः विधि-कुमार-बिरदी गुरुवासरे रामनवमी-पर्वणः शुभावसरे जनान् हार्दिक-शुभकामनाः अयच्छत्। ‘एक्स’ इत्यस्मिन् सामाजिक-माध्यमे प्रकाशिते संदेशे कश्मीर-भाग-आरक्षकेण उक्तं यत् आईजीपी-कश्म
आईजीपी-कश्मीरः राम-नवमी-पर्वणि जनान् अभिनन्दितवान्, शान्ति-सद्भावनयोः शुभाशंसाः प्रदत्ताः


श्रीनगरम्, २६ मार्चमासः (हि.स.)। कश्मीर-क्षेत्रस्य आरक्षक-महानिरीक्षकः विधि-कुमार-बिरदी गुरुवासरे रामनवमी-पर्वणः शुभावसरे जनान् हार्दिक-शुभकामनाः अयच्छत्।

‘एक्स’ इत्यस्मिन् सामाजिक-माध्यमे प्रकाशिते संदेशे कश्मीर-भाग-आरक्षकेण उक्तं यत् आईजीपी-कश्मीरः रामनवमी-पर्वणः शुभावसरे हार्दिक-शुभकामनाः ददाति। एषः पवित्रः उत्सवः मानवतायाः सद्गुणेषु अस्माकं विश्वासं दृढं करिष्यति तथा सर्वेषां मध्ये एकता-शान्ति-सद्भावनाः प्रेरयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता