Enter your Email Address to subscribe to our newsletters

बिहारशरीफम्, 26 मार्चमासः (हि.स.)।
मुख्यमन्त्री गुरुवासरे समृद्धि-यात्रायाः क्रमे नालन्दा-जनपदे विविध-विकासात्मक-योजनानां निरीक्षणं कृतवान्। अस्मिन् अवसरे सः अधिकारिभ्यः प्रगति-यात्रा-काले कृतानां घोषणानां क्रियान्वयनस्य विषये जानकारीम् अलभत तथा कार्याणि शीघ्रतया सम्पन्नानि कर्तुं निर्देशं दत्तवान्।
मुख्यमन्त्री बिहारशरीफ-राँची-मार्गे भरावपर-स्थले चतुशीत्यधिक-चतुःषष्टि-कोटि-एकषष्टि-लक्ष-रूप्यक-व्ययेन निर्मितस्य षोडशशत-विंशति-मीटर-दीर्घस्य उड्डयन-पुलस्य शिलापट्टम् अनावरणं कृत्वा लोकार्पणं कृतवान्। लोकार्पणोत्तरं तेन अस्य पुलस्य निरीक्षणं कृतम्। निरीक्षण-काले सः अवदत् यत् बिहारशरीफ-निवासिनां एषा प्राचीन-आकाङ्क्षा आसीत् या अद्य पूर्णा अभवत्। अस्य निर्माणेन जनानां आवागमने सुविधा भविष्यति तथा यातायात-व्यवस्था सुगमा भविष्यति।
अनन्तरं मुख्यमन्त्री कोसुक-ग्रामस्थितं कोसुक-रिवर-फ्रण्ट-कार्यस्थलं गतवान् तथा पञ्चाने-नद्यां पक्क-सुरक्षात्मक-कार्यं रिवर-फ्रण्ट-विकास-कार्यं च निरीक्षितवान्। सः बिहारशरीफ-प्रखण्डान्तर्गतं कोसुक-ग्रामात् सिपाह-पुल-पर्यन्तं पञ्चाने-नद्याः तट-विकासस्य पक्क-सुरक्षात्मक-कार्यस्य च विस्तृतां सूचनाम् अलभत।
अस्यां शृङ्खलायां मुख्यमन्त्री नालन्दा-जिले अन्यासां विकास-योजनानां विषये अपि विस्तृतां जानकारीम् अलभत। तासु पञ्चाने-सिंचाई-योजनायाः पुनर्स्थापन-कार्यं, लारी-ग्रामे मखनपुर-प्रखण्डात् धनौली-ग्राम-पर्यन्तं अधियारा-नद्याः तल-शोधनं नूतन-आरसीसी-प्रलय-निरोधक-द्वार-निर्माणं, सरमेरा-प्रखण्डे गोपालवाद-धनाबॉडी-जमीन्दारी-बन्धयोः पुनर्स्थापनं, एकंगरसराय-जल-निस्सरण-प्रमण्डले बाढ-नियन्त्रण-कटाव-निरोधी-कार्याणि, राजगीर-स्थिते ब्रह्मकुण्ड-परिसरस्य विकासः, बरगाही-आहर-पईन-योजनायाḥ जीर्णोद्धारः, नूरसराय-क्षेत्रे जलजमाव-निवारण-कार्याणि, राजगीर-क्षेत्रे ऐतिहासिक-स्थलानां संरक्षणं जयप्रकाश-उद्यानस्य वेणुवन-पार्कस्य घोड़ाकटोरा-आदीनां विकासः, डायनासोर-पार्क-सम्बद्धानि कार्याणि च समाविष्टानि सन्ति।
मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् सर्वाणि कार्याणि तीव्र-गत्या सम्पन्नानि क्रियन्ताम्। ततः परं सः बिहारशरीफ-नगर-निगमस्य दीपनगर-स्टेडियम-स्थलात् दूर-सञ्चार-माध्यमेन शिलापट्ट-अनावरणं कृत्वा नालन्दा-जिलायाः कृते त्रिशत-षोडश-कोटि-रूप्यक-व्ययेन शताधिक-दश (११०) योजनानां उद्घाटनं तथा चतुश्शत-चतुःनवतिः-कोटि-रूप्यक-व्ययेन षटाधिक-शत (१०६) योजनानां शिलान्यासं कृतवान्।
अनन्तरं मुख्यमन्त्री विभिन्न-विभागैः स्थापितानां प्रदर्शनी-स्थलानां निरीक्षणं कृतवान्। तत्र सः जीविका-दीदिभिः क्रियमाणानां जीविकोपार्जन-सम्बद्ध-क्रियाकलापानां उत्पादानां च जानकारीम् अलभत। सः सप्तदश-सहस्र-अष्टशत-एकादश (१७८११) जीविका-स्वयं-सहायता-समूह-दीदिभ्यः त्रिशत-त्रिनवतिः-दशमलव-पञ्चाशत् (३९३.५०) कोटि-रूप्यकाणां सांकेतिक-चेक् प्रदत्तवान्। उपस्थिताभिः ताभिः मुख्यमन्त्रिणः प्रति कृतज्ञता व्यक्ता तथा उक्तं यत् शासनस्य योजनाभिः ताः उन्नतिं प्राप्तवन्त्यः, परिवाराः च समृद्धिम् अनुभवन्ति।
मुख्यमन्त्री उक्तवान् यत् सर्वाः एवं कार्यं कुर्वन्तु, अग्रे च गच्छन्तु, शासनं तासां सर्वथा साहाय्यं करिष्यति। सः मुख्यमन्त्री-उद्यमी-योजना, दिव्याङ्गजन-सशक्तीकरण-योजना, समग्र-गव्य-विकास-योजना इत्यादीनां लाभुकान् अपि सांकेतिक-चेक् प्रदत्तवान्।
अन्ते सः क्रीडा-विभागः, ऊर्जा-विभाग, शिक्षा-विभागः, गृह-विभाग, कृषि-विभाग, उद्योग-विभाग, स्वास्थ्य-विभाग, समाज-कल्याण-विभाग-आदीनां विकास-कार्याणि निरीक्षितवान् तथा तेषां प्रशंसां कृतवान्। निरीक्षण-काले सः सर्वान् उपदिष्टवान् यत् सर्वे मिलित्वा कार्यं कुर्वन्तु, बिहार-राज्यं देशस्य पञ्च-प्रधान-विकसित-राज्यानां मध्ये स्थापयितुं प्रयासं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार