लिथियम, कोबाल्ट इत्याभ्यां सहितानां महत्वपूर्ण खनिजानाम् अन्वेषणं तीव्रीकर्तुं लग्नः सर्वकारः
नव दिल्ली, 26 मार्चमासः (हि.स.)। केंद्रीय पृथ्वी विज्ञान राज्य मंत्री (स्वतन्त्र प्रभार) डॉ. जितेन्द्र सिंहः अवदत् यत् सर्वकारः लिथियम्, कोबाल्टम् इत्यादीनां महत्त्वपूर्णखनिजानां अन्वेषणं तीव्रं कर्तुं, आयातनिर्भरता न्यूनां कर्तुं, तथा सुदृढां स्
गुरुवार को जीपीओए कॉम्प्लेक्स में आयोजित राष्ट्रीय खनिज अन्वेषण एवं विकास ट्रस्ट (एनएमईटी) की शासी निकाय की बैठक को संबोधित करते हुए, डॉ. जितेंद्र सिंह


नव दिल्ली, 26 मार्चमासः (हि.स.)।

केंद्रीय पृथ्वी विज्ञान राज्य मंत्री (स्वतन्त्र प्रभार) डॉ. जितेन्द्र सिंहः अवदत् यत् सर्वकारः लिथियम्, कोबाल्टम् इत्यादीनां महत्त्वपूर्णखनिजानां अन्वेषणं तीव्रं कर्तुं, आयातनिर्भरता न्यूनां कर्तुं, तथा सुदृढां स्वदेशीयां मूल्यशृंखलां विकसितुं प्रयतते।

सः गुरुवासरे जीपीओए संकुले आयोजितायाः राष्ट्रिय खनिज अन्वेषण एवं विकास ट्रस्ट (एनएमईटी) इत्यस्य शासी निकायस्य सभायां संबोधयन् महत्त्वपूर्णखनिजक्षेत्रे अन्वेषणस्य तीव्रीकरणम्, स्वदेशीयक्षमतायाः सुदृढीकरणम्, तथा सहभागितायाः विस्तारः इत्यादीनि प्रमुखप्राथमिकताः निर्दिष्टवान्।

तेन उक्तं यत् अन्वेषणस्य वेगः, विशेषतः लिथियम्, कोबाल्टम्, निकेल् इत्यादीनां महत्त्वपूर्णखनिजानां विषये, उद्भवमानस्य वैश्विकमागस्य तथा भारतस्य सामरिकावश्यकतानां अनुकूलः भवितुम् आवश्यकः।

तेन राजस्थानस्य सिवाना क्षेत्रे तथा जम्मू कश्मीरस्य सलाल हैमना खण्डे प्रवर्तमानानां कार्याणां उल्लेखः कृतः, तथा अधिकेषु संभाव्येषु क्षेत्रेषु स्वदेशीयान्वेषणप्रयत्नानां विस्तारः आहूतः।

मन्त्रिणा उक्तं यत् देशे भारतीयकम्पन्यः तथा स्टार्टअप्स् खननक्षेत्रे महत्त्वपूर्णखनिजक्षेत्रे च प्रवेशाय अनुकूलं वातावरणं निर्मातव्यम्। अस्य क्षेत्रस्य दीर्घकालिकविकासाय निजीअन्वेषणसंस्थाभ्यः क्षमताविकासः आवश्यकः।

तेन अधिसूचितानां निजीअन्वेषणसंस्थानां (एनपीईए) भूमिकायाः सुदृढीकरणम् तथा परियोजनानां शीघ्रस्वीकृतिः सुनिश्चितुं आह्वानं कृतम्, येन निजीसहभागिता सार्थकरूपेण वर्धेत।

अस्याः सभायाः सहाध्यक्षता केंद्रीयकोयलाखनमन्त्री तथा राष्ट्रियखनिजअन्वेषणविकासट्रस्टस्य शासीनिकायस्य अध्यक्षः जी किशन रेड्डी कृतवान्।

सभायां खानमन्त्रालयस्य वरिष्ठाधिकारीणः, सीएसआईआर संस्थायाः खनिज तथा पदार्थप्रौद्योगिकी संस्थानस्य निदेशकः, परमाणुखनिजनिदेशालयस्य निदेशकः, परमाणुऊर्जाविभागस्य प्रतिनिधयः, राजस्थान, तेलंगाना, महाराष्ट्र इत्यादीनां राज्यसर्वकारप्रतिनिधयः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार