Enter your Email Address to subscribe to our newsletters

नोएडा, 26 मार्चमासः (हि.स.)। जेवर-प्रदेशे निर्मीयमानं नूतनं नोएडा अन्ताराष्ट्रिय विमानतलम् उत्तरप्रदेशस्य अर्थव्यवस्थायाः कृते निर्णायकपरिवर्तनबिन्दुरूपेण सिद्धुं गच्छति। 28 मार्च दिने प्रधानमन्त्री नरेन्द्र मोदी तस्य उद्घाटनार्थम् आगच्छन्ति। एषः महत् प्रकल्पः केवलं विमानतलम् न, अपि तु उत्तरप्रदेशं ट्रिलियन-डॉलर-अर्थव्यवस्थारूपेण स्थापयितुं एकः सुदृढः रणनीतिक-प्रेरकः भविष्यति।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य दृष्ट्या अनुरूपं विकसितम् एतत् विमानतलम् उत्तरप्रदेशस्य दीर्घकालीनं “भूमिबद्ध” आर्थिक-सामर्थ्यं उद्घाटयिष्यति तथा च कृषि-क्षेत्रं लघु-मध्यम-उद्योगाः लॉजिस्टिक्स पर्यटनं उद्योगाश्च प्रत्यक्षतया वैश्विक-आपणेन सह संयोजयिष्यति। विशाल-स्तरे रोजगारसृजनं निवेशाकर्षणं च बहु-माध्यम-संयोजकता च अस्य परियोजनायाः माध्यमेन उत्तरप्रदेशस्य सकल-राज्य-आर्थिक-वृद्धिं तीव्रयिष्यन्ति तथा च राज्यं वैश्विक-आर्थिक-मानचित्रे सुदृढां पहचानं दास्यन्ति।
एयर इंडिया सैट्स संस्थायाः पूर्व-सीएफओ तथा यूपीडीएफ-अध्यक्षः (सीए) पंकज जायसवालस्य अनुसारं एषः भारतस्य महत्तमः ग्रीनफील्ड-विमानतल-प्रकल्पः भविष्यति, यस्य वार्षिक-यात्री-क्षमता 7 कोटि तथा कार्गो-परिवहन-क्षमता प्रायः 10 लक्ष-टन-पर्यन्ता भविष्यति। एतत् कृषि-लघु-मध्यम-उद्योग-लॉजिस्टिक्स-क्षेत्रेषु नवीनं वेगं दास्यति। अस्य माध्यमेन फल-शाक-दुग्ध-उत्पादनानि पुष्पादीनि शीघ्र-नाशमान-वस्तूनि प्रत्यक्षतया अन्ताराष्ट्रिय-आपणेषु प्राप्स्यन्ति, येन “कृषेः वैश्विक-बाजार-योजनाम्” सुदृढा भविष्यति तथा कृषकाणां आयः 20-30 प्रतिशत-पर्यन्तं वर्धितुं शक्नोति।
तेन उक्तं यत् लॉजिस्टिक्स-व्ययस्य न्यूनीकरणेन निर्यातवृद्ध्या तथा वैश्विक-संयोजकता-सुधारणेन उत्तरप्रदेशः राष्ट्रिय-अन्ताराष्ट्रिय-आर्थिक-मानचित्रे सशक्तं स्थानं प्राप्स्यति। एतत् विमानतलम् व्यापार-पर्यटनयोः नवीनान् आयामान् उद्घाटयिष्यति। दिल्ली-एनसीआर आग्रा मथुरा वृन्दावन वाराणसी इत्यादीनि प्रमुख-धार्मिक-नगराणि वैश्विक-पर्यटन-वृत्तेन सह संयोज्यन्ते, येन अन्ताराष्ट्रिय-पर्यटकानां आगमनं वर्धिष्यते। धार्मिक-पर्यटनं चिकित्सीय-पर्यटनं व्यवसाय-यात्रा च अपि उन्नतिं गमिष्यन्ति।
जायसवालस्य अनुसारं एतत् विमानतलम् केवलं परिवहन-सुविधायाः परिमितं न, अपि तु व्यापक-रोजगार-सृजनस्य मुख्य-केन्द्रं भविष्यति। प्रारम्भिक-पञ्च-वर्षेषु विमानतल-संचालन-भूमि-सेवा-सुरक्षा-विक्रय-आतिथ्य-क्षेत्रेषु 20000 अधिक-प्रत्यक्ष-रोजगाराः सृज्यन्ते तथा एमआरओ कार्गो लॉजिस्टिक्स एविएशन-सेवाः इत्यादिषु 30000 अधिकाः। अप्रत्यक्षरूपेण कृषि-परिवहन-सप्लाई-चेन-लघु-मध्यम-उद्योग-होटल-पर्यटन-क्षेत्रेषु 5 लक्षाधिक-रोजगाराः सृज्यन्ते ये दीर्घकाले 40-50 लक्ष-पर्यन्तं वर्धितुं शक्नुवन्ति।
जेवर-विमानतल-विकासेन सह उत्तरप्रदेशे अचल-संपत्ति-औद्योगिक-परिदृश्ययोः व्यापकः परिवर्तनः दृश्यते। नोएडा ग्रेटर नोएडा यमुना-एक्सप्रेसवे-औद्योगिक-विकास-प्राधिकरणं च शीघ्रं प्रीमियम-निवेश-केन्द्ररूपेण विकसितं भविष्यति। बुलन्दशहर अलीगढ़ मथुरा-वृन्दावन-प्रदेशेषु अपि नगरीय-विस्तार-पथाः विकसिताः भवन्ति, येन नूतन-नगर-उपनगराणि उद्भविष्यन्ति।
विमानतलस्य परितः होटल-वेयरहाउस-कार्यालय-स्थल-लॉजिस्टिक्स-पार्क-डेटा-केन्द्रेषु विशाल-निवेशाः आगमिष्यन्ति, येन रोजगाराः व्यापार-गतिविधयः च वर्धिष्यन्ति। इलेक्ट्रॉनिक्स मोबाइल-निर्माण खाद्य-प्रसंस्करण वस्त्र-उद्योगाः च निर्यात-केन्द्रित-उद्योगरूपेण तीव्रतया विकसिताः भविष्यन्ति।
एतत् विमानतलम् केवलं दिल्ली-एनसीआर-क्षेत्रस्य सहायक-विमानतलम् न, अपि तु भविष्यस्य एकं विशालं बहु-माध्यम-अन्तर्राष्ट्रीय-विमानन-केंद्रं रूपेण विकसितं क्रियते। एतत् दिल्ल्याः इन्दिरा-गान्धी-अन्ताराष्ट्रिय-विमानतले वर्धमानं भारं न्यूनं करिष्यति तथा वायु-परिवहनं संतुलयिष्यति। अस्य परितः विकसिताः एयरोसिटी लॉजिस्टिक्स-पार्क औद्योगिक-क्लस्टर च उत्तरप्रदेशं निवेशस्य नूतन-केन्द्ररूपेण स्थापयन्ति। राज्य-सरकारस्य प्रत्यक्ष-विदेश-निवेश-अनुकूल-नीतयः तथा सुगम-व्यवसाय-वातावरणं देशीय-विदेशीय-निवेशकानां आकर्षणं वर्धयिष्यति।---------------
हिन्दुस्थान समाचार