मध्यप्रदेशस्य मुख्यमन्त्री अद्य छिंदवाडा-पाण्डुर्णा-नगरयोः कोटि-कोटि-मूल्यानां विकास-कार्याणाम् उपहारं दास्यति
भोपालनगरम्, २६ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य गुरुवासरे छिंदवाडा-पाण्डुर्णा-जनपदयोः विभिन्न-विकास-कार्याणाम् उपहारं दास्यति। मुख्यमन्त्री एतयोः उभयोः जनपदयोः नानाविधानां विकास-कार्याणां भूमिपूजनं लोकार्पणं च करिष्य
सीएम मोहन यादव


भोपालनगरम्, २६ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य गुरुवासरे छिंदवाडा-पाण्डुर्णा-जनपदयोः विभिन्न-विकास-कार्याणाम् उपहारं दास्यति। मुख्यमन्त्री एतयोः उभयोः जनपदयोः नानाविधानां विकास-कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति।

जनसम्पर्क-अधिकारी नीलू-सोनी उक्तवती यत् मुख्यमन्त्री डॉ.यादवः छिंदवाडा-नगरस्य आरक्षकप्रांगणे आयोजितां जनसभां सम्बोधयिष्यति। अस्मिन् अवसरे सः ५०६.२९ कोटि-रूप्यक-मूल्यानां १०५ निर्माण-कार्याणां लोकार्पणं भूमिपूजनं च कृत्वा जनपदं विकासस्य उपहारेण अनुगरहीष्यति। कार्यक्रमे सः प्रदेशस्य संबल-योजनायाः पेंशन-योजनायाः च हितग्राहिभ्यः आर्थिक-सहायताराशेः ‘एक-क्लिक्’ माध्यमेन अंतरणम् अपि करिष्यति। ततः परं मुख्यमन्त्री चौरई-प्रदेशस्य सिहोरा-मालस्थाने आयोजिते सहस्र-कुण्डीय-यज्ञे अपि सहभागी भविष्यति।

स: अवदत् यत् मुख्यमन्त्री डॉ.यादवः नूतन-जनपदे पाण्डुर्णायां ३६२.८० कोटि-रूप्यक-मूल्यानां ६७ विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। एष: प्रयत्न: जनपदस्य समग्र-विकासाय नूतन-गतिं प्रदास्यति तथा आधारभूत-संरचनां सुदृढां करिष्यति। अत्र सः ३४ विकास-कार्याणां लोकार्पणं करिष्यति, येषां व्यय: १११.६३ कोटि-रूप्यकाणि सन्ति। एतेषां कार्याणां माध्यमेन विभिन्न-विभागानां अधोसंरचना दृढीभविष्यति तथा सामान्य-जनानां प्रत्यक्ष-लाभः भविष्यति। लोक-निर्माण-विभागस्य (सेतु-निर्माण) ३०.५ कोटि-रूप्यकैः निर्मितः पाण्डुर्णा-उड्डयन-सेतु: (फ्लाईओवर) एका महत्त्वपूर्णा उपलब्धि: अस्ति, यः नगरस्य यातायातं सुगमं करिष्यति, आवागमन-कालं न्यूनीकरिष्यति तथा व्यापारिक-क्रियाकलापानाम् अपि गतिं वर्धयिष्यति।मुख्यमन्त्री डॉ.यादवः ३३ नवीन-विकास-कार्याणां भूमिपूजनम् अपि करिष्यति, येषां व्यय: २५१.१७ कोटि-रूप्यकाणि सन्ति। एतासु परियोजनासु मध्यप्रदेश-भवन-विकास-निगमस्य त्रीणि महत्त्वपूर्णानि कार्याणि (₹६९.४९ कोटि) विशेषतया उल्लेखनीयानि सन्ति, येषु उपायुक्त-कार्यालयः, जनपद-चिकित्सालयः तथा एसपी-कार्यालयः अन्तर्भवन्ति। एतानि संस्थानानि जनपदस्य प्रशासनिक-स्वास्थ्य-कानून-व्यवस्था-प्रणालीं सुदृढां कृत्वा नागरिकेभ्यः उत्तम-सेवाः प्रदास्यन्ति।

जामसांवली-धाम्नि रामनवमी-अवसरे हनुमत्-जन्मोत्सवस्य २०२६ वर्षस्य शुभारम्भः

मुख्यमन्त्री डॉ.यादवः जामसांवली-धाम्नि मध्यप्रदेश-पर्यटन-विभागेन विकसितस्य ‘हनुमत्-लोक’ परियोजनायाः तथा मन्दिर-संस्थानस्य नवनिर्मितस्य विशाल-सभामण्डपस्य लोकार्पणं कृत्वा हनुमत्-जन्मोत्सवस्य २०२६ वर्षस्य शुभारम्भं करिष्यति। ‘हनुमत्-लोक’ परियोजना केवलं मन्दिर-परिसरस्य विस्तारः न, अपितु आधुनिक-प्रौद्योगिक्याः पौराणिक-परम्पराणां च समन्वयस्य जीवंत-उदाहरणम् अस्ति। प्रायः ३० एकर-क्षेत्रे विकसितः अयं परिसरः प्रदेशस्य प्रमुख-धार्मिक-पर्यटन-केन्द्ररूपेण प्रतिष्ठां प्राप्नोति। जामसांवली-धाम्नि अपि स्वीयं परिचयं दृढीकरोति, यत्र आस्था, जन-सहभागिता तथा सांस्कृतिक-अभिव्यक्तेः व्यापकः समावेशः दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता