Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २६ मार्चमासः (हि.स.)। केन्द्रीय-कृषि-ग्रामीण-विकासमन्त्री शिवराज-सिंह-चौहानः अद्य गुरुवासरे मध्यप्रदेशस्य रायसेन-जनपदे प्रवासे भविष्यति। अस्मिन् अवसरे सः अत्र अग्रिम ११ अप्रैलतः आरभ्यमाणस्य त्रिदिवसीय-कृषि-महोत्सव-प्रदर्शिनी-प्रशिक्षण-कार्यक्रमस्य सज्जाया: निरीक्षणं करिष्यति।
जनसम्पर्क-अधिकारी अनुभा-सिंह: उक्तवती यत् भारत-सर्वकारस्य राज्य-शासनस्य च समन्वयेन रायसेन-जनपदे अग्रिम ११ अप्रैलतः १३ अप्रैल २०२६ पर्यन्तं कृषि-महोत्सव-प्रदर्शिनी-प्रशिक्षण-कार्यक्रमस्य आयोजनं क्रियते। केन्द्रीयमन्त्री शिवराज-सिंह-चौहानः अद्य रायसेन-प्रवासे कार्यक्रम-स्थलस्य भ्रमणं कृत्वा सज्जाया: विषये विवरणं ग्रहीष्यति।
निर्धारित-कार्यक्रमानुसारं केन्द्रीयमन्त्री प्रातः ११ वादने भोपालनगरात् प्रस्थित्य मध्याह्ने १२ वादने रायसेन-नगरं प्राप्स्यति तथा अत्र राम-मन्दिरे दर्शनं करिष्यति। तदनन्तरं सः १२:१५ वादने दशहरा-प्रांगणम् आगत्य कृषि-मेलापकस्य सज्जाया: निरीक्षणं भूमिपूजनं च करिष्यति। केन्द्रीयमन्त्री १२:४५ वादने अधिकारिभिः सह सभां करिष्यति तथा १:१५ वादने कृषि-मेलापकस्य विषये पत्रकारैः सह वार्तालापं करिष्यति। ततः परं सः १:४५ वादने रायसेननगरात् विदिशा-नगरं प्रति प्रस्थितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता