राम नवम्यां ममता बनर्जी अददात् शुभकामनाः, शांतिपूर्णम् उत्सवस्य आह्वानम्
कोलकाता, 26 मार्चमासः(हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी गुरुवासरे ‘एक्स’ इत्यत्र संदेशं प्रेष्य रामनवमी-उत्सवस्य अवसरम् उपलक्ष्य राज्यवासिभ्यः शुभाशंसाः अददात्। मुख्यमन्त्री स्वसंदेशे सर्वान् अस्य पावन-अवसरस्य अभिनन्दनं कृत्वा
ममता बनर्जी


कोलकाता, 26 मार्चमासः(हि.स.)।

पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी गुरुवासरे ‘एक्स’ इत्यत्र संदेशं प्रेष्य रामनवमी-उत्सवस्य अवसरम् उपलक्ष्य राज्यवासिभ्यः शुभाशंसाः अददात्।

मुख्यमन्त्री स्वसंदेशे सर्वान् अस्य पावन-अवसरस्य अभिनन्दनं कृत्वा उक्तवती यत् सा रामनवमी-उत्सवस्य सफलं शान्तिपूर्णं च आयोजनं कामयते।

तया जनेभ्यः आह्वानं कृतं यत् ते शान्तेः, समृद्धेः, सर्वाङ्गीण-विकासस्य च मूल्यानि धारयन्तु, तानि च अग्रे नयन्तु।

ममता बनर्जी स्वसंदेशेन राज्ये सौहार्दपूर्ण-वातावरणस्य संरक्षणे विशेषं बलं दत्तवती।

---------------

हिन्दुस्थान समाचार