Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी चैत्र-नवरात्रेः अष्टमी-तिथौ माता-महागौर्याः चरणयोः श्रद्धापूर्वकं नमनं कृत्वा तस्याः आशीर्वादं प्रार्थितवान्।
प्रधानमन्त्री सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लिखितवान्- “माता-महागौर्याः चरणयोः कोटि-कोटि प्रणामाः। तस्याः दिव्या आभा सर्वेषां जीवनं सुख-समृद्धि-आरोग्यैः पूरयतु।”
अस्मिन् अवसरे प्रधानमन्त्रिणा एकं संस्कृत-सुभाषितम् अपि लिखितम्-
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः।महागौरी शुभं दद्यान्महादेवप्रमोददा॥
अस्यार्थः- या देवी श्वेत-वृषभे समारूढा अस्ति, श्वेत-वस्त्राणि धारयति, परम-पवित्रा अस्ति तथा महादेवं प्रमोदयति, सा महागौरी शुभं कल्याणं च ददातु।
नवरात्रेः अष्टमः दिवसः देवी-दुर्गायाः अष्टम-स्वरूपस्य माता-महागौर्याः पूजार्चनायै समर्पितः भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता