Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 मार्चमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सीपी राधाकृष्णन तथा प्रधानमन्त्री नरेन्द्र मोदी रामनवमी-उत्सवस्य अवसरे समस्तान् देशवासिनः अभिनन्दितवन्तः। तैः श्रीरामः सत्यस्य पराक्रमस्य च संगमः इति उक्तम्।
राष्ट्रपतिः मुर्मु सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र स्वसन्देशे देशवासिनः रामनवमी-पर्वणः शुभाशयाः प्रदत्तवन्ती। सा अवदत् यत् एषः उत्सवः अस्मान् न्याय, कर्तव्य तथा सदाचारस्य मार्गे गन्तुं प्रेरयति। मर्यादा-पुरुषोत्तमस्य भगवतः रामस्य जीवनात् त्याग, समरसता तथा आदर्श-जीवनमूल्यानां अमूल्यः संदेशः प्राप्यते। तेषां आदर्शान् आत्मसात् कृत्वा वयं रामराज्यस्य परिकल्पनानुसारं समृद्धं न्यायपूर्णं विकसितं भारतं निर्मातुं सहकार्यं कुर्मः।
उपराष्ट्रपतिः सीपी राधाकृष्णन अपि मर्यादा-पुरुषोत्तमस्य भगवतः रामस्य जन्मोत्सवस्य ‘रामनवमी’-पर्वणः देशवासिनः शुभाशयाः अदात्। सः अवदत् यत् धैर्य, त्याग तथा न्यायप्रियतायाः प्रतीकः भगवान् रामः सम्पूर्णमानवजातये न्याय, सत्य तथा अटूट- मर्यादायाः सर्वोत्तमः आदर्शः अस्ति। तेषां आदर्शाः अस्मान् सामाजिक-समरसता, सदाचार तथा जनसेवायाः मार्गे युगानुयुगं प्रेरयन्ति। सः अपि उक्तवान् यत् भगवतः रामस्य कृपया अधर्मे धर्मस्य विजयः भवतु, समाजात् अनाचारः अहंकारः अशान्तिश्च नश्यन्तु, तथा उत्तमः समाजः निर्मीयताम्। राष्ट्रस्य निरन्तर-उन्नतये सः मंगलकामनाः अपि कृतवान्।
प्रधानमन्त्री मोदी अपि ‘एक्स’ इत्यत्र स्वसन्देशे लिखितवान् यत् देशस्य सर्वेभ्यः परिवारजनभ्यः रामनवमी-उत्सवस्य हार्दिकाः शुभाशयाः। त्याग, तप तथा संयमेन युक्तस्य मर्यादा-पुरुषोत्तमस्य जीवनात् अस्माकं प्रत्येकस्मिन् परिस्थितौ पूर्ण-समर्थ्येन सामना कर्तुं प्रेरणा लभ्यते। तेषां आदर्शाः अनन्तकालं यावत् भारतवासिनां तथा सम्पूर्णमानवजातेः मार्गदर्शकाः भविष्यन्ति। सः राष्ट्रस्य कल्याणं कामयमानः उक्तवान् यत् भगवतः रामस्य कृपया सर्वेषां कल्याणं भवतु, येन विकसित-आत्मनिर्भर-भारतस्य संकल्पः सिद्धिं प्राप्नुयात्।
-------------
हिन्दुस्थान समाचार