Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ मार्चमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मु, उपराष्ट्रपतिः सी.पी.-राधाकृष्णन तथा प्रधानमन्त्री नरेन्द्र-मोदी गुरुवासरे आन्ध्रप्रदेशस्य मार्कपुरम्-जनपदे घटितायां भीषण-मार्ग-दुर्घटनायां शोकं व्यक्तवन्तः। प्रधानमन्त्री मृतकानां परिजनानां कृते प्रधानमन्त्री-राष्ट्रीय-राहत-कोषतः (पीएमएनआरएफ) द्वि-लक्ष-रूप्यकाणां तथा आहतेभ्यः ५० सहस्र-रूप्यकाणां अनुग्रह-राशेः घोषणा कृता।
राष्ट्रपतिः मुर्मु सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लिखितवती यत् आन्ध्रप्रदेशस्य मार्कपुरम्-जनपदे जाता बस-दुर्घटना अतीव दुःखदा अस्ति। सा शोक-सन्तप्त-परिवारान् प्रति स्व-संवेदनां व्यक्तवती तथा आहतेषु शीघ्र-स्वास्थ्य-लाभस्य कामनाम् अकरोत्।
उपराष्ट्रपतिः सी.पी.-राधाकृष्णन् अपि ‘एक्स’ इत्यत्र लिखितवान् यत् मार्कपुरम्-जनपदे घटितः बस-दुर्घटनाकाण्डः अत्यन्तं पीडादायकः अस्ति। दुःखस्य अस्मिन् काले तस्य संवेदनाः शोकाकुल-परिवारैः सह सन्ति। सः आहतानां शीघ्र-स्वास्थ्य-लाभं तथा प्रभावित-जनानां संबल-प्राप्तिं प्रार्थितवान्।
प्रधानमन्त्री-कार्यालयस्य ‘एक्स’ संदेशे प्रधानमन्त्री नरेन्द्र-मोदी उक्तवान् यत् आन्ध्रप्रदेशस्य मार्कपुरम्-स्थाने जाता दुर्घटना अत्यन्तं दुःखदा अस्ति। ये जनाः स्व-प्रियजनान् नष्टवन्तः, तान् प्रति प्रगाढ-संवेदनाः व्यक्ताः। ईश्वरात् प्रार्थना कृता यत् आहताः जनाः शीघ्रं स्वस्थाः भवेयुः।
संदेशे अग्रे उक्तं यत् प्रधानमन्त्री-राष्ट्रीय-राहत-कोषतः प्रत्येकं मृतकस्य परिजनाय द्वि-लक्ष-रूप्यकाणि प्रदास्यन्ते, आहतेभ्यः तु ५०,००० रूप्यकाणि दास्यन्ते।
आन्ध्रप्रदेशस्य मार्कपुरम्-स्थाने गुरुवासरे प्रातः तीव्र-वेगेन गच्छतः टिप्पर-वाहनस्य वैयक्तिक-बसयानेन सह दुर्घटना अभवत्, ततः उभयोः वाहनयोः भीषणा अग्निः प्रज्वलिता। अस्यां दुर्घटनायां दश यात्रिणः स्थले एव दग्धाः मृताः, अन्ये च बहवः गम्भीरतया आहताः अभवन्। घटनायाः सूचना प्राप्तमात्रेण स्थानीय-प्रशासनं राहत-दलं च स्थलं प्राप्य उद्धार-कार्यम् आरब्धवन्तः। आहते जनाः शीघ्रं समीपस्थ-चिकित्सालये प्रवेशिताः, यत्र तेषां उपचारः प्रवर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता