Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 मार्चमासः (हि.स.)।देशव्यापि रेल-पथं अतिक्रम्य गच्छतां जनानां दुर्घटनानां निवारणाय अधुना रेल-विभागः मिशन-रूपेण कार्यं करिष्यति। अस्यां दिशि रेलमन्त्री अश्विनी वैष्णव गुरुवासरे नवी-दिल्ली-नगरे अधिकारिभिः सह कार्यशालां आयोजित्य व्यापक-निर्देशान् प्रदत्तवान्।
रेलमन्त्री उक्तवान् यत् यत्र रेल-पथस्य एका पार्श्वे बस्ती तथा अपरस्मिन् पार्श्वे क्षेत्राणि, विद्यालयाः, श्मशानानि वा अन्यानि आवश्यक-स्थानानि सन्ति, तत्र जनसुविधार्थं विशेष-प्रकारस्य रेल-पुलिकबलेन निर्मास्यन्ते। एतासां पुलिकानां उद्देश्यः सामान्यजनानां सुरक्षितं सुगमं च आवागमनं प्रदातुम् अस्ति।
वैष्णवः अधिकारिभ्यः निर्देशं दत्तवान् यत् पुलिकानां विन्यासः (डिज़ाइन) एवं भवेत् येन जनाः निर्भयतया तासां उपयोगं कुर्वन्ति। तासां निर्माणं तथैव भविष्यति यत् जनाः सायकल, मोटरयानानि तथा अन्यानि आवश्यक-सामग्रीणि सह सुगमतया गन्तुं आगन्तुं च शक्नुवन्ति। एषा योजना देशस्य विशाल-जनसंख्यायाः कृते जीवनदायिनी सिद्धा भविष्यति।
रेल-विभागस्य योजनानुसारं पुलिकानां संरचना पूर्वमेव निर्माय पश्चात् स्थलम् आनयित्वा स्थाप्यते। स्थापनाकाले रेल-पथे ‘अवरोध-कालः’ (ब्लॉक) गृह्यते, यस्य अन्तर्गतं केवलं द्वादश-घण्टासु पट्टिकां छित्वा पुलिका स्थाप्यते तथा उपयोगाय उद्घाट्यते।
रेलमन्त्री एतत् अपि निर्देशितवान् यत् पुलिकानां विन्यासः एवं स्यात् येन जलसञ्चय-समस्या न भवेत्। सह एव एषा व्यवस्था दीर्घकालं यावत् प्रभावी स्थास्यति। सः अधिकारिभ्यः उक्तवान् यत् आगामिषु पञ्च-षट्-वर्षेषु अस्य समस्यायाः स्थायी समाधानं सुनिश्चितं क्रियताम्।
एषः निर्णयः रेल-अधिकारिभिः सह बहुदिनपर्यन्तं सम्पन्नस्य विचार-विमर्शस्य परिणामः अस्ति। रेल-मन्त्रालयस्य मतम् अस्ति यत् संवेदनशीलाः व्यावहारिकाः च उपायाः एव सामान्यजनानां समस्यायाः दीर्घकालिकं समाधानं दातुं समर्थाः भवन्ति।
------------
हिन्दुस्थान समाचार