Enter your Email Address to subscribe to our newsletters

दैहिक-दैविक-भौतिक लाभानां कृते रामनवम्यां करणीयं हवनमव
प्रयागराजः, 26 मार्चमासः (हि.स)।
अस्माकं ग्रन्थेषु यज्ञ-चिकित्सायाः उल्लेखः प्राप्यते। यज्ञ-चिकित्सायाः मूलसिद्धान्तः अयं यत् सा स्थूलरूपेण न, अपितु सूक्ष्मरूपेण शरीरे प्रभावं करोति। हवनं शुद्धिकरणस्य एकः अनुष्ठानः अस्ति, यः मनुष्यतः आरभ्य प्रकृतिपर्यन्तं सर्वं शुद्धीकरोति।
एतानि वचनानि गुरुवासरे प्रातःकाले एसकेआर-योग-रेकी-शोध-प्रशिक्षण-प्राकृतिक-संस्थान-प्रयागराजस्य आयोजनकाले नवरात्र-उत्सवे प्रसिद्धः स्पर्श-चिकित्सकः सतीश राय जनान् सम्बोधयन् उक्तवान्।
—यज्ञ-चिकित्सा ऋषि-मुनिभिः आचरिता प्राचीन-प्रथा
तेन उक्तं यत् यज्ञ-चिकित्सा सनातन-धर्मस्य आरम्भात् एव ऋषि-मुनिभिः आचरिता एकः प्राचीनः वैज्ञानिकः च उपायः अस्ति। अस्माकं ऋषयः मुनयः च वायोः सूक्ष्म-परीक्षणं कृत्वा ज्ञातुं शक्नुवन्ति स्म यत् वायौ कः विषाणुः वा विकारः अस्ति, तेन कः रोगः प्रसर्तुं शक्नोति। तदनुसारं ते वन-औषधीनां हवनं कृत्वा वायौ प्रसृतान् विषाणून् कीटाणूंश्च नाशयित्वा वातावरणं शुद्धीकुर्वन्ति स्म।
—हवनेन शारीरिक-मानसिक-रोगेषु लाभः
सतीश राय उक्तवान् यत् आधुनिक-जीवन-शैलिनः कारणात् अद्यतन-युगे सर्वे जनाः शारीरिकतः मानसिकतः वा पीडिताः सन्ति, ते च कथञ्चित् तस्मात् मोक्षं इच्छन्ति। एतादृशे समये मन्त्राणां उच्चारणेन सह यज्ञं कृत्वा या ऊर्जा उत्पद्यते, सा तत्र उपस्थितानां जनानां चक्राणि शुद्धीकृत्य सुदृढानि करोति, सकारात्मक-ऊर्जया पूरयति, तथा च तस्मिन् क्षेत्रे प्रदूषित-वायुम् अपि शुद्धीकुरुते। तेन तत्र निवसन्तः सर्वे जनाः रोगमुक्ताः भवन्ति।
—रोगेभ्यः संरक्षणस्य श्रेष्ठः उपायः हवनम्
सतीश राय उक्तवान् यत् रामनवमी-दिने यज्ञं वा हवनं कृत्वा दैहिक-दैविक-भौतिक-लाभाः प्राप्यन्ते। अर्थात् देहसम्बद्ध-रोगेभ्यः, दैवीय-प्रकोपात्, भौतिक-आपद्भ्यः च मुक्तिर्भवति। यज्ञस्य लघुरूपं हवनं कृत्वा शुभ-प्रभावः न केवलं व्यक्तौ, अपितु गृहस्य अन्तर्वर्तिनि वायुमण्डले अपि दृश्यते। नित्यं हवनं कर्तुम् अपि पर्यावरण-शुद्धेः एकः उपायः अस्ति। अनेन अपि रोगाणां नाशः भवति। हवनस्य समये दत्ताभ्यः दिव्य-औषधिभ्यः निष्पन्ना ऊर्जा धूमश्च वायुमण्डले सञ्चरन्तः रोगकारकान् असंख्यान् कीटाणून् नाशयति। सामान्य-रोगेभ्यः रक्षणस्य सर्वोत्तमः उपायः हवनमेव अस्ति।
---------------
हिन्दुस्थान समाचार