Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 मार्चमासः (हि.स.)।
भारतीयक्रिकेटनियन्त्रणमण्डलेन भारतीयपुरुषक्रिकेटदलस्य २०२६–२७ तमे वर्षे गृहे आयोजितस्य अन्ताराष्ट्रियसत्रस्य कार्यक्रमः उद्घोषितः। अस्मिन् सत्रे भारतदेशः वेस्टइण्डीज् श्रीलङ्का जिम्बाब्वे तथा ऑस्ट्रेलिया इत्येतानां देशानां आतिथ्यं करिष्यति। समग्रसत्रे १७ नगरेषु कुलं २२ अन्ताराष्ट्रियक्रीडाः आयोज्यन्ते येन देशव्यापिनः दर्शकाः उच्चस्तरीयं क्रिकेटक्रीडां द्रष्टुं अवसरं प्राप्स्यन्ति।
वेस्टइण्डीज् दलस्य विरुद्धं श्रृंखलया आरम्भः भविष्यति। एषा श्रृंखला २७ सितम्बर २०२६ तः आरभ्यते। अस्मिन् दौरे त्रयः एकदिवसीयक्रीडाः पञ्च च टी २० अन्ताराष्ट्रियाः क्रीडाः आयोज्यन्ते। एकदिवसीयक्रीडाः तिरुवनन्तपुरम् गुवाहाटी न्यूचण्डीगढ् इत्येषु नगरेषु भविष्यन्ति, टी २० क्रीडाः लखनऊ रांची इन्दौर हैदराबाद बेंगलुरु इत्येषु स्थलेषु आयोज्यन्ते।
डिसम्बर २०२६ तमे वर्षे श्रीलङ्कादलम् भारतभ्रमणे आगमिष्यति। अस्मिन् समये त्रयः एकदिवसीयक्रीडाः त्रयः टी २० क्रीडाः च भविष्यन्ति। एकदिवसीयक्रीडाः दिल्ली बेंगलुरु अहमदाबाद इत्येषु नगरेषु, टी २० क्रीडाः राजकोट कटक पुणे इत्येषु आयोज्यन्ते।
नववर्षस्य २०२७ आरम्भे जिम्बाब्वेदलम् भारतं आगमिष्यति। अस्मिन् भ्रमणे त्रयः एकदिवसीयक्रीडाः आयोज्यन्ते, ये कोलकाता हैदराबाद मुम्बई इत्येषु नगरेषु भविष्यन्ति।
सत्रस्य समापनं ऑस्ट्रेलियादलस्य विरुद्धं पञ्चक्रीडात्मकया टेस्टक्रीडा श्रृंखलया भविष्यति। अस्याः आरम्भः २१ जनवरी २०२७ तः नागपुरे भविष्यति। अनन्तरं चेन्नई गुवाहाटी रांची अहमदाबाद इत्येषु स्थलेषु क्रीडाः आयोज्यन्ते। एषा श्रृंखला विश्वक्रिकेटे द्वयोः शक्तिशालिनोः दलयोः मध्ये तीव्रस्पर्धायाः साक्षी भविष्यति।
---------------
हिन्दुस्थान समाचार