रामनवम्यां मुख्यमंत्री धामी अकरोत् कन्यापूजनम्
देहरादूनम्, 26 मार्चमासः (हि.स.)। रामनवमी-पावन-अवसरे मुख्यमन्त्री पुष्कर-सिंह-धामी अद्य स्वस्य राजकीय-निवासे कन्या-पूजनं कृत्वा देवी-स्वरूपाः बालिकाः पूजितवान्। अस्मिन् अवसरॆ तेन पारम्परिक-रीतिभिः कन्याभ्यः भोजनं प्रदत्तं तथा तासां आशीर्वादः प्राप्
मुख्यमंत्री पुष्कर  सिंह धामी कन्या पूजन करते हुए।


देहरादूनम्, 26 मार्चमासः (हि.स.)। रामनवमी-पावन-अवसरे मुख्यमन्त्री पुष्कर-सिंह-धामी अद्य स्वस्य राजकीय-निवासे कन्या-पूजनं कृत्वा देवी-स्वरूपाः बालिकाः पूजितवान्। अस्मिन् अवसरॆ तेन पारम्परिक-रीतिभिः कन्याभ्यः भोजनं प्रदत्तं तथा तासां आशीर्वादः प्राप्तः।

मुख्यमन्त्री प्रदेशवासिनः रामनवमी-पर्वणः शुभाशयाः दत्त्वा उक्तवान् यत् मर्यादा-पुरुषोत्तमस्य भगवान् श्रीरामस्य जीवन-चरित्रं कर्तव्यनिष्ठायाः सत्यस्य धर्मस्य च मार्गे गन्तुं प्रेरणां ददाति। सः सर्वेषां सुख-समृद्धि-खुशहालतायाः कामनां कृतवान्। तेन उक्तं यत् प्रभोः श्रीरामात् प्रार्थना अस्ति यत् प्रदेशः निरन्तरं प्रगतेः पथे अग्रे गच्छतु तथा सर्वेषां जीवनं सुखमयं भवतु।

मुख्यमन्त्री उक्तवान् यत् रामनवमी-पर्व मर्यादा-आदर्श-नैतिक-मूल्यानां प्रति आस्थां सुदृढयति। सः कन्या-पूजनं भारतीय-सांस्कृतिक-परम्परायाः महत्त्वपूर्णं अङ्गं इति निरूप्य उक्तवान् यत् एतत् नारी-सम्मानस्य सामाजिक-समरसतायाः च सन्देशं ददाति।

अन्ते मुख्यमन्त्री सर्वेषां प्रदेशवासिनां सुख-शान्ति-समृद्धेः कामनां कृत्वा पुनः रामनवमी-पर्वणः हार्दिकाः शुभाशयाः अर्पितवान्।

हिन्दुस्थान समाचार