Enter your Email Address to subscribe to our newsletters





- सॉफ्टवेयर टेक्नोलॉजी पार्क्स ऑफ इंडिया इत्यस्य गोरखपुरकेंद्रं मुख्यमंत्रिणा लोकार्पितम्
गोरखपुरम्, 26 मार्चमासः (हि.स.)।
योगी आदित्यनाथः उक्तवान् यत् प्रौद्योगिकी विकासस्य गतिं बहुगुणितां कर्तुं शक्नोति तथा अस्माकं गतिं प्रगतौ परिवर्तयितुं समर्था अस्ति। एतद् दृष्ट्वा प्रदेश-सरकारेण अनेके कार्यक्रमाः आरब्धाः सन्ति तथा वित्तीयप्रस्तावेऽपि प्रौद्योगिक्यां विशेषः ध्यानः कृतः। गत-नववर्षेषु प्रदेशेन सर्वेषु क्षेत्रेषु अभूतपूर्वः विकासः साधितः।
मुख्यमन्त्री गुरुवासरे गोरखपुर औद्योगिक विकास प्राधिकरण (गीडा) इत्यत्र एसटीपीआई इत्यस्य गोरखपुर-केन्द्रस्य लोकार्पण-समारोहे सम्बोधनं कुर्वन् आसीत्। तेन उक्तं यत् यदि वयं प्रौद्योगिकीं न स्वीकरोमः तर्हि स्पर्धायां न भवामः, स्पर्धायां अभावे प्रगत्याः स्थाने दुर्गतिः भवति। अतः अस्माभिः प्रगतिम् अनुगन्तव्यम्।
तेन उक्तं यत् अस्माकं युवसु महान् प्रतिभा अस्ति। यदा एषा प्रतिभा प्रौद्योगिक्या सह संयुज्यते तदा सा बहुगुणितेन वेगेन विकासं प्राप्नोति। एतदेव कार्यं नरेन्द्र मोदी इत्यनेन गत-एकादशवर्षेषु कृतम्। भारते विश्वस्य विशालतमः युवा-समूहः अस्ति, किन्तु २०१४ वर्षात् पूर्वं तस्य योग्यं मूल्यं न दत्तम्, न च कौशल-विकासाय पर्याप्ताः अवसराः प्रदत्ताः। तस्मात् युवा-जनाः निराशाः अभवन्, पलायनं च अकरोत्। किन्तु २०१४ वर्षात् अनन्तरं सर्वेषु क्षेत्रेषु परिवर्तनं दृश्यते।
मुख्यमन्त्री अवदत् यत् एसटीपीआई-गोरखपुर-केन्द्रं गोरखपुर-पूर्वाञ्चल-प्रदेशस्य युवानां स्वप्नानां नवां गतिं दास्यति। अस्य विशेषता अस्ति यत् उद्यमी केवलं स्वस्य सङ्गणकं गृहित्वा तत्र गत्वा कार्यं कर्तुं शक्नोति; स्थानं, विद्युत्-संयोजनं, अन्याः सुविधाः च तत्रैव लभ्यन्ते। एषः आदर्शः विश्वे सर्वत्र सफलः अभवत्।
तेन उक्तं यत् १५ एप्रिल् दिनाङ्के गोरखपुरे पूर्वाञ्चलस्य प्रथमः “सेण्टर् आफ् एक्सीलेंस्” आरभ्यते, यः महाराणा प्रताप इंस्टिट्यूट ऑफ टेक्नोलॉजी (एमपीआईटी) इत्यत्र निर्मितः अस्ति। एते कार्यक्रमाः सूचयन्ति यत् अधुना केवलं हार्डवेयर्-क्षेत्रे न, अपि तु सॉफ्टवेयर्-क्षेत्रे अपि पूर्वाञ्चलस्य युवा वैश्विक-मञ्चे स्वप्रतिभां प्रदर्शयितुं समर्थाः भविष्यन्ति। उत्तरप्रदेशे विंशतिसहस्राधिकाः स्टार्टअप्स् कार्यरताः सन्ति, तेषु अर्धाधिकाः नार्यः संचालयन्ति।
मुख्यमन्त्री उक्तवान् यत् ग्रीन् हाइड्रोजन-ऊर्जा भविष्यस्य ऊर्जा अस्ति। तस्य विकासाय मदन मोहन मालवीय प्रौद्योगिकी विश्वविद्यालय (एमएमएमयूटी) इत्यत्र “सेण्टर् आफ् एक्सीलेंस्” निर्मीयते, यस्मै पञ्चाशत्कोटि-रूप्यकाणि प्रदत्तानि सन्ति। अन्यदेशेषु, विशेषतः जापान इत्यत्र, एषा प्रौद्योगिकी उन्नता अस्ति, तस्मात् सहकार्येण अस्य विकासः क्रियते।
तेन उक्तं यत् प्रदेशे यत्र याः सम्भावनाः सन्ति, तत्र तेषां अनुकूलाः “सेण्टर् आफ् एक्सीलेंस्” विकसिताः भवन्ति। IIT Kanpur इत्यत्र मेडिटेक्-क्षेत्रे, SGPGI Lucknow इत्यत्र अन्यः केन्द्रः विकसितः। कानपुरे लेदर् तथा ड्रोन-प्रौद्योगिकी, नोएडा-ग्रेटर् नोएडा-क्षेत्रे रोबोटिक्स्-केन्द्रस्य अपि विकासः क्रियते। कृषि-क्षेत्रे अपि विश्ववित्तकोषेण सह मिलित्वा पूर्वाञ्चले अष्टाविंशतिः जनपदेषु तथा बुन्देलखण्डे सप्त जनपदेषु एग्रीटेक्-कार्यक्रमाः सञ्चलन्ति।
मुख्यमन्त्री उक्तवान् यत् गीडा गत-नववर्षेषु नव-निर्माणस्य उत्कृष्टं उदाहरणं प्रदर्शितवान्। पूर्वं तत्र केवलं द्वौ उद्योगौ स्तः, किन्तु अधुना त्रिशताधिकाः उद्योगाः स्थापिताः, सप्तदशसहस्रकोट्यधिकं निवेशः जातः, पञ्चाशत्सहस्राधिकानां युवानां रोजगारः सुनिश्चितः।
अस्मिन् समारोहे अन्ये अपि अनेकाः प्रमुखाः व्यक्तयः उपस्थिताः आसन्। सॉफ्टवेयर्-टेक्नोलॉजी-पार्कः त्र्यर्ध-एकर-क्षेत्रे विंशत्कोटि-रूप्यक-व्यये निर्मितः अस्ति। अस्मिन् पञ्चाशत्-आसनयुक्तं कार्यक्षेत्रं, षट्सहस्र-वर्गफुट् इन्क्यूबेशन-स्थानम्, आधुनिक-सम्मेलन-कक्षः, नेटवर्क्-प्रणाली, कैफेटेरिया च उपलब्धानि सन्ति।
---------------
हिन्दुस्थान समाचार