Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २६ मार्चमासः (हि.स.)। वाराणसी-नगरे दुर्गाकुण्ड-क्षेत्रस्थिते दुर्गा-मन्दिरे नवरात्रस्य अष्टमी-पर्वणि प्रातःकालादेव श्रद्धालूनां सम्मर्दः समागतः। लाल-चुनरी, नारिकेलं, अड़हुल-मालां च हस्तेषु धृत्वा आगताः श्रद्धालवः स्व-श्रद्धया दर्शन-पूजनं कृतवन्तः। मन्दिर-प्राङ्गणे नव-देवीनां दर्शनानि अपि श्रद्धालुभिः कृतानि तथा यज्ञ-कुण्डे यज्ञं कृतम्।
अस्मिन् अवसरे मन्दिरस्य महन्त-परिवारस्य पशुपतिनाथः दुबे उक्तवान् यत् नवरात्रौ अष्टम्यां मातुः दुर्गायाः स्तुतिः क्रियते। माता दुर्गा शक्तिदायिनी सौभाग्यदायिनी च अस्ति। अष्टमी-अवसरे मातुः पूजनं कृत्वा सर्व-शक्तेः प्राप्तिः भवति। उदया-तिथेः कारणात् अद्य अष्टमी-व्रतं सर्वैः श्रद्धालुभिः धृतम् अस्ति तथा प्रातःकालादेव मन्दिरे दर्शन-पूजनं कुर्वन्ति। श्रद्धालूनां सुरक्षार्थं सुरक्षा-दलम् सक्रियम् अस्ति। मन्दिर-प्राङ्गणे अस्मिन् वर्षे छायाचित्र-ग्रहणं निषिद्धं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता