Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, २६ मार्चमासः (हि.स.)। वासन्तिक-नवरात्रेः महाष्टमी-अवसरे उत्तरप्रदेशस्य मीरजापुर-जनपदस्य अदलपुरा-स्थिते बृहत्-शीतला-माता-धाम्नि आस्थायाः अद्भुतं दृश्यं दृष्टम्। महागौरी-स्वरूपेण सुसज्जितायाः मातुः दर्शनार्थं प्रातःकालादेव श्रद्धालूनां जनतरङ्गः उत्थितः। प्रातः चतुर्वादने मङ्गल-आरार्तिक्याः अनन्तरं मन्दिर-कपाटेषु उद्घाटितेषु “जय माता दी” इति घोषैः समग्रं धाम निनादितम्।
मातुः श्रृङ्गारः श्वेत-पुष्पैः, अड़हुल-पुष्पैः पाटल-पुष्पैः च भव्यरूपेण कृतः। नारिकेलं, कदलीफलम्, पायसम् इत्यादिभिः सह विविधानि प्रसाद-द्रव्याणि समर्प्य भक्तैः सुख-समृद्धेः कामना कृता। पूर्वाञ्चलस्य वाराणसी-भदोही-जौनपुर-चन्दौली-सोनभद्र-गाजीपुर-बलिया-जनपदैः सह बिहार-झारखण्ड-मध्यप्रदेश-छत्तीसगढ़-प्रदेशेभ्यः आगताः श्रद्धालवः गङ्गा-स्नानानन्तरं मातुः दरबारे उपस्थिताः अभवन्।
गर्भगृहं प्रति दीर्घासु पङ्क्तिषु स्थिताः श्रद्धालवः नारिकेल-चुनरी-माला-पुष्पाणि-एला-बेसन-मोदक-पेड़ा-इत्यादिनि मिष्टान्नानि च समर्पयन्तः दृष्टाः। मन्दिरस्य पुजारिणः सुव्यवस्थित-रीत्या दर्शन-पूजनं कारयन्तः श्रद्धालूभ्यः मार्गदर्शितवन्तः। महाष्टमी-अवसरे सर्वरात्रं दर्शन-पूजनस्य क्रमः निरन्तरं प्रवर्तिष्यते। सुरक्षा-व्यवस्थां प्रति प्रशासनम् अपि पूर्णतया सज्जं दृष्टम्। सीओ मञ्जरी-रावः, तहसीलदार-इवेन्द्र-कुमारः, कोतवाल-विजय-शंकर-सिंहः इत्येतैः सह अन्ये अधिकारिणः मन्दिर-परिसरं गङ्गा-घाटं च निरन्तरं निरीक्ष्य व्यवस्थायाः समीक्षां कुर्वन्तः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता