Enter your Email Address to subscribe to our newsletters

कोलकाता, 26 मार्चमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी गुरुवासरे एक्स-माध्यमे अन्नपूर्णापूजाया: अवसरम् उपलक्ष्य राज्यवासिनः शुभाशंसाः प्रेषितवती।
मुख्यमन्त्री स्वसंदेशे देवीम् अन्नपूर्णां स्तुत्वा लिखितवती यत् सा परात्परा देवी अस्ति, या सुखप्रदा, दुःखनाशिनी च अस्ति, तथा सर्वेषां जीवनं अन्नेन परिपूर्णं करोति।
ममता बनर्जी स्वस्य पोस्ट-माध्यमेन सर्वेभ्यः जनभ्यः अन्नपूर्णापूजाया: हार्दिकाः शुभाशंसाः अभिनन्दनानि च प्रदत्तवती।
---------------
हिन्दुस्थान समाचार