Enter your Email Address to subscribe to our newsletters

गङ्गटोकनगरम्, २६ मार्चमासः (हि.स.)। सत्तारूढः सिक्किम-क्रान्ति-मोर्चा(एसकेएम)-दलस्य सर्वे अभ्यर्थिनः अग्रिम-नगरपालिका-निर्वाचनम् २०२६ इत्यस्य कृते अद्य नामांकनपत्राणि समर्पयितुं गच्छन्ति। दल-सूत्रैः उक्तं यत् राज्यस्य सर्वेषां षट्-जनपदानां अन्तर्गत-नगर-निगमेषु, नगर-परिषदासु तथा नगर-पञ्चायतेषु अद्य नामांकनपत्राणि समर्पितानि भविष्यन्ति।
सिक्किम-राज्य-निर्वाचन-आयोगेन २३ मार्चमासे प्रदेशे नगरपालिका-निर्वाचनम् २०२६ इत्यस्य घोषणा कृता आसीत्। नामांकनपत्र-समर्पणस्य अन्तिम-तिथिः ३० मार्चमासः इति निर्धारिता अस्ति। राज्यस्य सर्वेषु नव-शहरीय-स्थानीय-निकायेषु मतदानं २४ अप्रैलमासे भविष्यति तथा मतगणना २५ अप्रैलमासे भविष्यति।
नगरपालिका-निर्वाचनस्य घोषणया सह एव एसकेएम-दलेन नगर-निगमेषु, नगर-परिषदासु तथा सर्वासु नगर-पञ्चायतेषु स्व-अभ्यर्थिनां घोषणा कृता। एसकेएम-दलस्य अभ्यर्थिनः अद्य प्रातः १० वादनतः सर्वेषु शहरीय-स्थानीय-निकायेषु नामांकनपत्र-समर्पणं आरभ्स्यन्ते।
सिक्किम-राज्ये नगरपालिका-निर्वाचने आहत्य-मतदातॄणां संख्या ९३,६९७ अस्ति। सर्वेषु ९ शहरीय-स्थानीय-निकायेषु ६३ वार्ड-इत्येतेषु मतदानं भविष्यति, येषां कृते १२१ मतदान-केन्द्राणि स्थापितानि सन्ति।
पूर्व-नगरपालिका-निर्वाचनस्य तुलनायां अस्मिन् वर्षे वार्ड-इत्येतेषु २३ प्रतिशत-वृद्धिः, मतदान-केन्द्रेषु ३६ प्रतिशत-वृद्धिः तथा जनपदेषु द्वि-प्रतिशत-वृद्धिः अभवत्। एवं मतदातॄणां संख्यायां १४.५ प्रतिशत-वृद्धिः अभवत्।
अन्यतः राज्ये कस्यापि विपक्ष-दलस्य अभ्यर्थिनां नामानि अद्यावधि न घोषितानि सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता