पानिहाट्याः युधं न्यायस्य समरः : अमित मालवीयः
कोलकाता, 26 मार्चमासः (हि.स.)।भारतीय जनतादलं उत्तर-२४-परगना-जनपदस्य पानिहाटी-विधानसभा-आसनात् आर्ची-कर-दुष्कर्म-हत्याकाण्डस्य पीडितायाः युववैद्याया: माता रत्ना देबनाथ नाम्नीं प्रत्याशिनीं नियुक्तवती। दलम् एतत् निर्वाचनं न्यायस्य संघर्षरूपेण प्रस्तौत
8ec7598a6d205446cd60a8562039390a_229197788.jpg


कोलकाता, 26 मार्चमासः (हि.स.)।भारतीय जनतादलं उत्तर-२४-परगना-जनपदस्य पानिहाटी-विधानसभा-आसनात् आर्ची-कर-दुष्कर्म-हत्याकाण्डस्य पीडितायाः युववैद्याया: माता रत्ना देबनाथ नाम्नीं प्रत्याशिनीं नियुक्तवती। दलम् एतत् निर्वाचनं न्यायस्य संघर्षरूपेण प्रस्तौति।

भाजपाया: सह-प्रभारी तथा आईटी-सेल-प्रमुखः अमित मालवीय गुरुवासरे प्रातःकाले सोशल-मीडिया-माध्यमे ‘एक्स’ इत्यत्र लिखितवान् यत् एतत् केवलं प्रत्याशिनः नामनिर्देशनं नास्ति, अपितु न्यायस्य संघर्षः अस्ति। सः राज्यसरकारस्य कार्यविधौ प्रश्नान् उत्ताप्य आरोपितवान् यत् एतस्मिन् भीषण-अपराधे व्यवहारणे ममता बनर्जी-सर्वकारेण बहवः गम्भीराः दोषाः अभवन्।

मालवीयेन उक्तं यत् एतेषु कथितेषु दोषेषु सत्यस्य दमनप्रयत्नः, प्रमाणानां नाशनम्, शवपरीक्षणे (पोस्टमार्टमे) विकृतिः, शीघ्रतया अन्त्येष्टिकर्म, फॉरेंसिक-परीक्षणार्थं नमूनानां असुरक्षित-रक्षणम्, अपराध-स्थलस्य छेड़छाड़ इत्यादयः आरोपाः अन्तर्भवन्ति।

तेन जनान् प्रति आह्वानं कृतं यत् ते रत्ना देबनाथ-नाम्नीं समर्थनं कुर्वन्तु, अस्मिन् न्याय-संघर्षे तस्या: सह तिष्ठन्तु, परिवर्तनार्थं मतदानं च कुर्वन्तु।

---------------

हिन्दुस्थान समाचार