Enter your Email Address to subscribe to our newsletters

पश्चिम-मेदिनीपुरम्, २६ मार्चमासः (हि.स.)। जनपदस्य पाथरा-क्षेत्रे स्थितानां अनेकेषां प्राचीन-हिन्दू-मन्दिराणां संरक्षणे पुनर्जीवने च महत्त्वपूर्णां भूमिकां निर्वहन् तथा साम्प्रदायिक-सौहार्दाय राष्ट्रपतिः कबीर-पुरस्कारं प्राप्तवान् यासिन-पठानः स्वपरिवारेण सह अग्रिम-निर्वाचने मतदान-बहिष्कारस्य सञ्चेतना अयच्छत्।
एषः विषयः खडगपुर-ग्रामीण-विधानसभा-क्षेत्रस्य अन्तर्गतेन पाथरा-ग्रामेण सम्बद्धः अस्ति। ग्राम-निवासी यासिन-पठानः अवदत् यत् तस्य पुत्रस्य द्वयोः पुत्र्योश्च नामानि मतदाता-सूच्यां ‘अण्डर-एडजुडिकेशन’ अर्थात् ‘विचाराधीन’श्रेण्यां निबद्धानि सन्ति, यद्यपि ते पूर्वमेव सर्वाणि आवश्यक-तथ्यानि सम्बन्धित-अधिकारिभ्यः समर्पितवन्तः।
तेन उक्तं यत् सः १९७८ वर्षे आरभ्य निरन्तरं मतदानं करोति, वर्ष २००२ मतदाता-सूच्यां तस्य तस्याः पत्न्यः च नाम निबद्धम् अस्ति। तस्य पुत्रः तसवीर-पठानबादशाहः (४०) तथा पुत्र्यौ तानिया-परवीन (३७) तमन्ना-परवीन (३४) अपि पूर्वं बहुवारं मतदानं कृतवन्त्यौ। तथापि नवीन-परिशिष्ट-मतदाता-सूच्यां तेषां नामानि ‘विचाराधीन’ इति श्रेण्यां निबद्धानि इति कारणेन परिवारस्य मध्ये असन्तोषः जातः।
यासिन-पठानः अवदत् यत् यदि तस्य पुत्र-पुत्र्योः मताधिकारः पुनः न प्रदीयते तर्हि सः तस्य परिवारस्य सर्वे सदस्याः च अस्मिन् वारे मतदानं न करिष्यन्ति।
अस्य वक्तव्यस्य अनन्तरं स्थानीय-राजनीतिः अपि उष्णा जाता। दिनेन-रायः, यः खड़गपुर-ग्रामीण-क्षेत्रात् तृणमूल-कांग्रेस-पक्षस्य अभ्यर्थी अस्ति, आरोपं कृतवान् यत् निर्वाचन-आयोगस्य प्रक्रिया सामान्य-जनान् पीडयति।
अपरतः शंकर-गुच्छैतः, यं बुधवासरे सायं भारतीय-जनता-पक्षः मेदिनीपुर-सदर-विधानसभा-क्षेत्रात् स्व-अभ्यर्थित्वेन घोषितवती, अस्मिन् विषये प्रतिक्रियां प्रदाय उक्तवान् यत् निर्वाचन-आयोगः निश्चयेन प्रकरणस्य परीक्षणं कृत्वा उचितं पादं गृह्णीयात्। तेन विश्वासः व्यक्तः यत् आयोगः निष्पक्षतया निर्णयं करिष्यति तथा येषां नामानि मतदाता-सूच्यां विचाराधीनानि सन्ति तेषां प्रकरणानि अपि नियमानुसारं समाधानं प्राप्स्यन्ति। तेन जनान् प्रति आह्वानं कृतं यत् ते निर्वाचन-आयोगे विश्वासं कुर्वन्तु तथा लोकतान्त्रिक-प्रक्रियायां सहभागितां धारयन्तु।
खड़गपुर-ग्रामीण-क्षेत्रस्य पाथरा-ग्रामः ऐतिहासिक-पुरातात्त्विक-दृष्ट्या अत्यन्तं महत्त्वपूर्णः मन्यते। कांगसबती-नद्याः तीरे स्थिते अस्मिन् क्षेत्रे मध्यकालीन-कालस्य प्रायः ३० तः अधिकाः प्राचीन-मन्दिर-अवशेषाः दृश्यन्ते, येषु अनेकानि मन्दिराणि १७–१८ शताब्द्योः सम्बद्धानि कथ्यन्ते। एतेषां ऐतिहासिक-मन्दिराणां कारणेन पाथरा ‘मन्दिरमय-पाथरा’ इति नाम्ना अपि प्रसिद्धः अस्ति।
एतेषां जीर्ण-भूतानां मन्दिराणां संरक्षण-पुनरुद्धारयोः कृते पूर्वं यासिन-पठानः प्रयत्नं कृतवान्, स्थानीय-जनान् सहगृह्य मन्दिर-रक्षा-मरम्मत-अभियानं च आरब्धवान्। तस्य प्रयासैः अनेकेषां मन्दिराणां पुनर्निर्माणं संरक्षणं च सम्भवं जातम्। साम्प्रदायिक-सौहार्द-वारसा-संरक्षणयोः अस्य कार्यस्य कृते तस्मै भारतस्य राष्ट्रपतिना प्रतिष्ठितः कबीर-पुरस्कारः प्रदत्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता