Enter your Email Address to subscribe to our newsletters

कोलकाता, 27 मार्चमासः (हि.स.)। विधानसभा-निर्वाचनात् पूर्वमेव भारत-निर्वाचन-आयोगेन पश्चिम-बङ्गाले महत्त्वपूर्णं प्रशासनिक-परिवर्तनं कृत्वा चतुर्दश-विधानसभा-आसनेषु रिटर्निंग-अधिकारिणः परिवर्तिताः। गुरुवासरे रात्रौ आयोग-सूत्रैः एतत् सूचितम्। उक्तं यत् राज्यस्य नवसु जिल्लासु नियुक्ताः एते अधिकारिणः केवलं पञ्च-दिनानां अन्तरे स्वपदात् अपसारिताः, यद्यपि ते गत-सोमवासरे एव नियुक्ताः आसन्।
आयोगस्य नूतन-अधिसूचनानुसारं रिक्तेषु पदेषु नवसु पदेषु नूतन-अधिकारिणां नियुक्तिः कृता। पूर्व-मिदनापुर-जिल्लायां अधिकतमः परिवर्तनः दृष्टः, यत्र पञ्च-विधानसभा-क्षेत्रेषु रिटर्निंग-अधिकारिणः परिवर्तिताः। तेषु नन्दीग्राम-आसनस्य कृते २००९-वर्षस्य पश्चिम-बङ्गाल-सिविल-सेवा-अधिकारी राजर्षि-नाथः नूतना जिम्मेदारी दत्ता। अधिसूचनायां प्रत्येक-जिल्ला-निर्वाचन-क्षेत्रानुसारं अधिकारिणां नामानि, तेषां पूर्व-पदानि नूतन-जिम्मेदार्यः च उल्लिखितानि। सर्वे सम्बद्ध-अधिकारिणः शुक्रवारस्य सायं पञ्चवादनपर्यन्तं कार्यभारं स्वीकर्तुं निर्देशिताः।
आयोग-सूत्रानुसारं येषु विधानसभा-क्षेत्रेषु रिटर्निंग-अधिकारिणां स्थानान्तरणं कृतम्, तेषु जलपाईगुड़ी, भरतपुर, बादुरिया, जगतबल्लभपुर, जादवपुर, मोयना, नन्दकुमार, पुरशुरा, कांथी-दक्षिण, एगरा, खड़गपुर, दासपुर, हल्दिया, सोनामुखी च सन्ति। अपरं हरिहरपाड़ा, करीमपुर, फांसीदेवा, नन्दीग्राम, खानाकुल, केशियाड़ी, रायपुर-बिनपुर, बर्धमान-दक्षिण च आसनेषु नूतन-रिटर्निंग-अधिकारिणः नियुक्ताः।
उल्लेखनीयम् यत् गत-सोमवासरे आयोगेन राज्यस्य त्रिसप्तति-विधानसभा-केन्द्रेषु रिटर्निंग-अधिकारिणः नियुक्ताः आसन्। तस्मिन्नेव सूच्यां भवानीपुर-आसनस्य कृते नन्दीग्रामस्य बीडीओ सुरजीत-रायः रिटर्निंग-अधिकारी कृतः आसीत्। अस्य नियुक्तेः विषये तृणमूल-काङ्ग्रेस-दलेन आपत्तिः व्यक्ता, आरोपः कृतः च यत् सः शुभेन्दु-अधिकारी इत्यस्य समीपवर्ती अस्ति तथा तस्य प्रभावे कार्यं करोति। २४ मार्च तिथौ दलस्य पक्षतः आयोगाय पत्रमपि प्रेषितम्।
अस्मिन् विवादे प्रवर्तमाने आयोगेन राज्यस्य मुख्य-सचिवात् त्रयाणाम् अधिकारिणां नामानि अपि याचितानि। तथापि चतुर्दश-आसनेषु नूतन-रिटर्निंग-अधिकारिणां नियुक्तेः अनन्तरम् अपि मुख्यमन्त्रिणः निर्वाचन-क्षेत्रं भवानीपुरम् अद्यापि नूतन-अधिकारीणां नाम्ना रहितम् अस्ति।
गौरतलम् यत् निर्वाचन-प्रक्रियायां रिटर्निंग-अधिकारिणां भूमिका अत्यन्तं महत्त्वपूर्णा भवति। प्रत्येक-विधानसभा-क्षेत्रे एकः रिटर्निंग-अधिकारी नियुक्तः भवति, यः अभ्यर्थिनां नामाङ्कन-स्वीकारात् आरभ्य निर्वाचन-प्रक्रियायाः प्रारम्भिक-व्यवस्थापनपर्यन्तं सर्वाणि कार्याणि वहति।
हिन्दुस्थान समाचार