नैर्वाचनीयम् 26 : पश्चिम बंगालस्य निर्वाचनं हिंदूनां रक्षायाः निर्वाचनम् -अग्निमित्रा पालः
आसनसोलः, 27 मार्चमासः (हि. स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनम् अधिकृत्य आसनसोल-दक्षिण-विधानसभा-आसनस्य प्रत्याशी अग्निमित्रा-पाल तीव्रतया प्रचारकार्ये प्रवृत्ता अस्ति। शुक्रवासरे सा राधानगर-मार्ग-युवा-समित्या आयोजिते कार्यक्रमे सहभागी अभवत्। समित
सभा को संबोधित करती अग्निमित्र पाल


आसनसोलः, 27 मार्चमासः (हि. स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनम् अधिकृत्य आसनसोल-दक्षिण-विधानसभा-आसनस्य प्रत्याशी अग्निमित्रा-पाल तीव्रतया प्रचारकार्ये प्रवृत्ता अस्ति। शुक्रवासरे सा राधानगर-मार्ग-युवा-समित्या आयोजिते कार्यक्रमे सहभागी अभवत्। समितेः पक्षात् तस्यै पगडीं दत्त्वा सम्मानः कृतः। सा रामनवमी-अवसरे हार्दिक-शुभाशयाः अपि प्रदत्तवती।

सभां सम्बोधयन्ती अग्निमित्रा-पाल उक्तवती यत् भगवान् श्रीरामः यं आदर्श-राज्यं स्थापितवान् तत् “रामराज्यम्” इति कथ्यते—यत्र सर्वेषां जनानां सम्मानः भवति, जनहिताय कार्याणि क्रियन्ते, तथा प्रत्येकस्य जनस्य सुरक्षा-परिपालनं सुनिश्चितं भवति। सा भगवान् श्रीरामं प्रति प्रार्थयति यत् ४ अप्रैल २०२६ दिनाङ्के पश्चिम-बङ्गाले अपि प्रधानमन्त्री नरेंद्र-मोदी-नेतृत्वे रामराज्यस्य स्थापना भवेत्, तथा अस्माकं देशे अपि तादृशः आदर्श-समाजः व्यवस्था च स्थापितौ स्याताम्।

सा अग्रे अवदत् यत् देशस्य प्रधानमन्त्री नरेंद्र-मोदी नानाविधानां योजनानां माध्यमेन सर्ववर्गीय-जनानां पर्यन्तं विकासं प्रापयितुं प्रयत्नं कृतवान्। प्रत्येक-गृहे आवास-योजना, प्रत्येक-गृहे जल-योजना इत्यादीनां लाभः सर्वेषु गृहेषु प्राप्स्यते। गृहम् महिलानां नाम्नि भविष्यति, महिलाभ्यः सुरक्षा स्वातन्त्र्यं च प्रदास्यते। प्रत्येक-गृहे शौचालय-सुविधा भविष्यति। जल-योजनायाः अन्तर्गतं प्रत्येक-गृहे जलस्य उपलब्धता भविष्यति। उज्ज्वला-योजनया गैस-संयोजनं प्रदास्यते।

एतासां योजनानां मुख्यः उद्देश्यः सामान्य-जनानां जीवनं सुलभं कर्तुम् अस्ति, यथा कश्चन अपि मूलभूत-सुविधाभ्यः वञ्चितः न भवेत्। वैश्विक-परिस्थितीनां युद्धस्य च कारणात् तैल-गैस-मूल्यानि वर्धितानि सन्ति, किन्तु एषा केवलं अस्थायी-स्थिति अस्ति। सरकारस्य प्रयासः अस्ति यत् सर्वेषां गृहेषु सुविधाः प्राप्यन्ताम् तथा जनानां कृते राहतिः दीयताम्।

सा उक्तवती यत् समाजे सर्वधर्माणां वर्गाणां विशेषतया महिलानां च सम्मानस्य रक्षणं आवश्यकम्। दृढः सुरक्षितः च समाजः एव वास्तविक-रामराज्यस्य परिचायकः अस्ति। रामनवमी-अवसरे वयं सर्वे मिलित्वा तादृशस्य भारतस्य निर्माणाय संकल्पं कुर्मः।

सा पुनः उक्तवती यत् बाङ्ग्लादेशे हिन्दूनां प्रति यः अत्याचारः क्रियते, यत्र महिलाभ्यः अत्याचाराः, युवानां जीवदाहनं च भवति, तत् केवलं बाङ्ग्लादेशे एव न सीमितम्। पश्चिम-बङ्गालस्य सीमावर्ती-जनपदेषु—उत्तर-दिनाजपुर, दक्षिण-दिनाजपुर, जलपाईगुड़ी—इत्यत्र जनसांख्यिक-परिवर्तनं दृश्यते, यत्र पूर्वं हिन्दवः बहुसंख्यकाः आसन्, अधुना अल्पसंख्यकाः अभवन्। सा उक्तवती यत् २०२६-विधानसभा-निर्वाचनं केवलं जल-विद्युत्-समस्याभ्यः न, अपि तु हिन्दुत्व-रक्षणाय अपि अस्ति।

रामनवम्याः अवसरे आयोजितायां शोभायात्रायां अग्निमित्रा-पाल सहभागी अभवत्। सा स्वहस्तयोः खड्गं त्रिशूलं च धारयित्वा शोभायात्रायां निर्गता। ---------------

हिन्दुस्थान समाचार