Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 27 मार्चमासः (हि.स.)।
असम-विधानसभा-निर्वाचनं दृष्ट्वा नरेन्द्र मोदिनो नेतृत्वाधीनं भारतीय जनतादलं राज्ये जनसम्पर्कं सुदृढीकर्तुं प्रयत्नान् वर्धयति। अस्यां श्रृंखलायां प्रधानमन्त्री नरेन्द्र मोदी आगामी ३० मार्च-दिने “नमो ऐप” इत्यस्य माध्यमेन असम-राज्यस्य जनान् तथा दल-कार्यकर्तॄन् सम्बोधयिष्यति।
भाजपायाः अनुसारं प्रधानमन्त्री अस्मिन् काले विविध-जनसभाभिः जनानां समीपे गच्छति, अधुना च एषः डिजिटल-संवाद-अभियानः तस्य जनसम्पर्कं अधिकं व्यापकं करिष्यति। अस्य उपक्रमस्य माध्यमेन दल-कार्यकर्तारः तथा सामान्य-नागरिकाः अपि प्रधानमन्त्रिणा सह प्रत्यक्षं सम्बद्धाः भवितुं शक्नुवन्ति।
राज्य-भाजपा सर्वान् कार्यकर्तॄन् तथा असम-निवासिनः आह्वयति यत् ते “नमो ऐप” अवतारयन्तु (डाउनलोड कुर्वन्तु) तथा तस्मिन् पंजीकरणं कुर्वन्तु, येन ते अस्य विशेषस्य अन्तरक्रियात्मक-कार्यक्रमस्य अंशं भवितुं शक्नुवन्ति। ऐप-अवतरणाय इच्छुकाः जनाः 1800-209-0920 इत्यस्मिन् दूरवाणि-सङ्ख्यायां मिस्ड-कॉल अपि दातुं शक्नुवन्ति।
भाजपया अयं डिजिटल-संवादः एकः अद्वितीयः उपक्रमः इति उक्त्वा जनान् अस्मिन् सक्रियतया सहभागित्वं कर्तुं प्रार्थितम्, येन प्रधानमन्त्रिणा सह तेषां प्रत्यक्षः संवादः स्थापयितुं शक्यते।
----------
हिन्दुस्थान समाचार