मुख्यमंत्री सरमा जनेभ्यः अददात् राम नवम्याः शुभकामनाः
गुवाहाटी, 27 मार्चमासः (हि.स.)। पवित्र-चैत्र-रामनवमी-पर्वणः शुभावसरे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा सर्वेभ्यः देशवासिभ्यः हार्दिकाः शुभाशंसाः प्रेषितवान्। मुख्यमन्त्री डॉ. सरमा स्वस्य सामाजिकमाध्यम-हस्तके एकं सन्देशं प्रकाशितवान् य
असमः मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा सोशल मीडिया पर शेयर किया गया चित्र


गुवाहाटी, 27 मार्चमासः (हि.स.)। पवित्र-चैत्र-रामनवमी-पर्वणः शुभावसरे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा सर्वेभ्यः देशवासिभ्यः हार्दिकाः शुभाशंसाः प्रेषितवान्।

मुख्यमन्त्री डॉ. सरमा स्वस्य सामाजिकमाध्यम-हस्तके एकं सन्देशं प्रकाशितवान् यत्र सः उक्तवान् यत् मर्यादा-पुरुषोत्तमस्य श्रीरामस्य आदर्शाः सर्वेषां जीवनं सुखेन शान्त्या धर्ममार्गे च सदा अग्रे नयन्तु।

विदितम् अस्ति यत् मुख्यमन्त्री असम-विधानसभा-निर्वाचन-2026 इत्यस्य निमित्तं समग्रे राज्ये तीव्रं प्रचार-अभियानं संचालयति। अस्य मध्ये अद्य सः बिहपुरिया, रंगानदी, ढकुवाखाना, नाओबैचा इत्येषु स्थलेषु तथा सायंकाले लखीमपुरे अपि रोड-शो करिष्यति।

निर्वाचन-व्यस्ततायाम् अपि मुख्यमन्त्री डॉ. सरमा मठ-मन्दिरादिषु धार्मिक-स्थलेषु गत्वा पूजाअर्चनायाः अवसरं कदापि न परित्यजति।

हिन्दुस्थान समाचार