Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 27 मार्चमासः (हि.स.)। असम-प्रदेशस्य मुख्यमन्त्री डॉ-हिमन्त-बिस्व-सरमा-महोदयः आगामिषु विधानसभा-निर्वाचनेषु भारतीय-जनता-पार्टी-दलस्य महान् विजयः भविष्यति इति अनुमानं व्यक्तवान्। तेन अस्य कारणरूपेण जनतायाः दृढं समर्थनं दलस्य सुदृढ-सङ्गठनात्मक-सज्जा च निर्दिष्टा।
निरन्तरं निर्वाचन-कार्येषु संलग्नः डॉ-शर्मा-महोदयः अद्य माध्यमैः सह संवादं कुर्वन् दलस्य जनसम्पर्क-अभियानस्य प्राप्त-प्रतिक्रियायाः उल्लेखं कृत्वा अवदत् यत् “विजय-संकल्प-यात्रा” इत्यस्य समये बहुसंख्यकाः जनाः अस्मभ्यं आशीर्वादं दत्तवन्तः। तेन उक्तं यत् भाजपा स्वपक्षे ऐतिहासिक-परिणामानां अपेक्षां करोति।
मुख्यमन्त्री स्वस्य राजनैतिक-प्रतिद्वन्द्विनः, विशेषतः ऑल-इण्डिया-यूनाइटेड-डेमोक्रेटिक-फ्रण्ट-दलस्य बदरुद्दीन-अजमल-महोदयस्य विरुद्धम् अपि स्वकीयम् आक्रमणं तीव्रं कृतवान्। स्वस्य वक्तव्ये डॉ-शर्मा अवदत् यत् भाजपया असम-प्रदेशस्य शत्रूणां शक्तिः पूर्णतया नष्टा। अपि च उक्तवान्— “अन्येषां अवशिष्टानां शत्रूणां विनाशं अपि अहं करिष्यामि।”
भारत-निर्वाचन-आयोगस्य अनुसारं सर्वेषां १२६ विधानसभा-क्षेत्राणां कृते मतदानं ९ अप्रैल तिथौ भविष्यति, मतगणना च ४ मई तिथौ भविष्यति।
हिन्दुस्थान समाचार