जन्मभूमि मंदिरे प्रभोः श्रीरामस्य समाचरितो जन्मोत्सवः, सूर्यस्य किरणेन मस्तिकाभिषेकः
अयोध्या, 27 मार्चमासः (हि.स.)। समग्रे भारते तथा उत्तरप्रदेशस्य अयोध्यायामपि रामनवमी-पर्व महान् उल्लासेन उत्साहेन च आचर्यते।शुक्रवासरे चैत्र-मासस्य शुक्ल-पक्षस्य नवमी-तिथौ यथावत् मध्याह्ने द्वादश-वादने श्रीराम जन्मभूमि मंदिर इति मन्दिरे प्रभोः श्रीर
राम मंदिर सूर्य तिलक


राम मंदिर सूर्य तिलक


राम मंदिर सूर्य तिलक


अयोध्या, 27 मार्चमासः (हि.स.)। समग्रे भारते तथा उत्तरप्रदेशस्य अयोध्यायामपि रामनवमी-पर्व महान् उल्लासेन उत्साहेन च आचर्यते।शुक्रवासरे चैत्र-मासस्य शुक्ल-पक्षस्य नवमी-तिथौ यथावत् मध्याह्ने द्वादश-वादने श्रीराम जन्मभूमि मंदिर इति मन्दिरे प्रभोः श्रीरामस्य प्रतीकात्मकः जन्मोत्सवः आचरितः।

श्रीरामस्य जन्मानन्तरं आरती कृता। सूर्यस्य किरणाः श्रीरामललायाः मस्तकं अभिषिञ्चन्, ततः अनन्तरं प्रतिमायाः पञ्चामृतेन अभिषेकः कृतः।

श्रीजन्मभूमि-मन्दिरे श्रीरामस्य जन्मसमये समग्रायाम् अयोध्यायां बहवः पटाकाः विस्फोटिताः। राम-जन्मोत्सवे समग्रायाम् अयोध्यायाम् अभूतपूर्वः उत्साहः दृष्टः।

भगवतः श्रीरामस्य जन्मोत्सवे भागं ग्रहीतुं अयोध्यां प्रति बहुसंख्याः श्रद्धालवः आगताः। मन्दिरस्य मुख्य-मार्गे सन्तः श्रद्धालून् प्रति पुष्प-वृष्टिम् अकुर्वन्।

हिन्दुस्थान समाचार