बलियाजनपदे निर्मास्यते महर्षि-भृगु-परिसरः, पञ्चाशत्-कोटि-रूप्यक-व्ययेन धार्मिक-पर्यटनस्य रूपं परिवर्तिष्यते
बलियाजनपदः, २७ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदे धार्मिक-पर्यटन-विकासाय नूतनां दिशां दातुं महर्षि-भृगु-परिसर-निर्माणाय अनुमतिः प्रदत्ता। मुख्यमन्त्रिणा योगी-आदित्यनाथेन बलिया-स्थितस्य महर्षि-भृगु-मन्दिर-परिसर-परियोजनायै पञ्चाशत्-कोटि-रू
महर्षि भृगु कारिडोर का प्रस्तावित मॉडल


बलियाजनपदः, २७ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदे धार्मिक-पर्यटन-विकासाय नूतनां दिशां दातुं महर्षि-भृगु-परिसर-निर्माणाय अनुमतिः प्रदत्ता। मुख्यमन्त्रिणा योगी-आदित्यनाथेन बलिया-स्थितस्य महर्षि-भृगु-मन्दिर-परिसर-परियोजनायै पञ्चाशत्-कोटि-रूप्यकाणां स्वीकृतिः दत्ता। एषा परियोजना श्रीकाशी-विश्वनाथ-धाम्नः पक्षे विकसितं भविष्यति। परियोजना प्रायः १०,५२० वर्ग-मीटर-क्षेत्रफले विकसितं भविष्यति, या पवित्रां गङ्गा-नदीं ऐतिहासिक-ददरी-मेलापक-क्षेत्रेण सह संयोजयिष्यति।

मुख्य-राजस्व-अधिकारी त्रिभुवनः अवदत् यत् अयं परिसरः विशेषतया श्रद्धालूनां सुविधां दृष्ट्वा निर्मीयते। भृगु-मन्दिर-क्षेत्रे प्रतिवर्षं कार्तिक-पूर्णिमायां पञ्च-लक्षाधिकाः श्रद्धालवः गङ्गा-स्नानं पूजार्चनां च कर्तुम् आगच्छन्ति। ददरी-मेलापके तु एषा संख्या पञ्चाशत्-लक्षात् अपि अधिका भवति। अस्मात् अतिरिक्तं गुरु-पूर्णिमा, दीपावली तथा होली-इत्यादिषु प्रमुख-उत्सवेषु अपि अत्र बहवः श्रद्धालवः समागच्छन्ति। परिसर-निर्माणेन एतेषां सर्वेषां कृते उत्तम-आवागमन-सुविधाः उपलब्धाः भविष्यन्ति।

परियोजनायाः अन्तिम-रूप-निर्धारणार्थं मुख्य-राजस्व-अधिकारी-अध्यक्षतायां गठितया समित्या भृगु-समित्या, चित्रगुप्त-समित्या तथा स्थानीय-पुजारिभिः सह सभाः कृत्वा विचाराः गृहीताः। अस्यां समितौ नगर-मजिस्ट्रेट्, लोक-निर्माण-विभागस्य अधिशासी-अभियन्ता, सदर-उपजिलाधिकारी तथा नगर-पालिका-परिषदः अधिशासी-अधिकारी च सम्मिलिताः सन्ति। तेन उक्तं यत् परिसरस्य वास्तु-योजना सज्जा जाता अस्ति। नगर-पालिकायाः परिसम्पत्तिनां विद्युत्-विभागस्य स्थानान्तरण-व्ययस्य च मूल्याङ्कनम् अपि कृतम्।

परियोजनायाः कृते अर्थ-प्रावधानं शासन-स्तरे पूर्वमेव कृतम्। अस्मिन् परिवहन-मन्त्री दयाशंकर-सिंहस्य प्रयत्नानां महत्त्वपूर्णा भूमिका कथ्यते। महर्षि-भृगु-परिसर-निर्माणेन बलिया-जनपदाय नूतना धार्मिक-सांस्कृतिक-परिचयः प्राप्तः भविष्यति। एषा परियोजना न केवलं आस्थायाः प्रमुख-केंद्रं भविष्यति, अपि तु पर्यटनस्य अपि प्रोत्साहनं करिष्यति। अनेन माध्यमेन बलिया-नगरं प्राचीन-परम्पराणां आधुनिक-सुविधानां च सुन्दर-सङ्गम-रूपेण विकसितं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता