Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २७ मार्चमासः (हि.स.)।देशे सर्वत्र अद्य शुक्रवारे रामनवमीपर्व उत्साहने पालितः अस्ति। भगवतः श्रीरामस्य जन्मदिनरूपेण रामनवमीपर्व मन्यते। एतत् पर्व प्रतिवर्षं चैत्रमासस्य शुक्लपक्षे नवमीदिने उत्सवितः भवति।
मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनयादवः रामनवमीपर्वणि प्रदेशवासिनः प्रति शुभकामनाः प्रदत्तवान्। सः भगवतः श्रीरामस्य आदर्शान् - संयमम्, समर्पणम् मर्यादां च जीवने पालनाय आह्वानं कृतवान्।
मुख्यमन्त्री डॉ.यादवः सामाजिक-माध्यमे एक्स इत्यस्मिन् शुभकामना-सन्देशे उक्तवान् – “रामनवमी पर्वणि प्रदेशवासिनः प्रति हार्दिकं अभिनन्दनं शुभकामनाः च। भगवतः श्रीरामस्य जीवनम् संयमेन, समर्पणेण, सहयोगेन च मूल्यानि दृढतया पालनाय परिपूर्णम् आसीत्। सः दृढसंकल्पेन अन्यायस्य विरोधं कृतवान् तथा कठिनानां परिस्थितिनां साहसं सम्मुखिनं कर्तुं प्रेरितवान्। मध्यप्रदेशवासिनः सौभाग्यशालीनः भवन्ति यत् अयोध्यायाः सदृशं चित्रकूटधाम तथा ओरछातीर्थस्थानानि अस्मिन् प्रदेशे सन्ति, यत् मर्यादापुरुषोत्तमस्य रामस्य जीवनं योगदानं च स्मर्तुं प्रेरयन्ति। भगवतः श्रीरामस्य आदर्शाः नित्यमेव मानवतायाः पथप्रदर्शकाः भविष्यन्ति।”
अन्यसन्देशेन मुख्यमंत्री डॉ.यादवः चैत्रनवरात्रे नवमीतिथौ माता-सिद्धीदात्री-चरणयोः नमस्कारं कुर्वन् उक्तवान् -
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि। सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी।
चैत्र-नवरात्रेः पावने अवसरे आदिशक्ति-माता-दुर्गायाः नवमस्वरूपे माता-सिद्धीदात्री-चरणयोः दण्डवत् प्रणामः कृतः। जगज्जनन्याः मातुः कृपया सर्वेषां जीवनं सुखमयं भवतु, इत्येषा प्रार्थना अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता