Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, २७ मार्चमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा शुक्रवासरे ऑल-इण्डिया-यूनाइटेड-डेमोक्रेटिक-फ्रन्ट् (एआईयूडीएफ) प्रमुखः बदरुद्दीन-अजमलस्य वक्तव्ये तीक्ष्णां प्रतिक्रियां व्यक्तीकृत्य उक्तवान् यत् राज्ये अवैध-घुसपैठ-इत्यस्य विरुद्धं तेषां सर्वकारस्य कठोर-कार्यान्वयनं अग्रेऽपि निरन्तरं प्रवर्तिष्यते।
मुख्यमन्त्री गत-पञ्च-वर्षाणां उल्लेखं कृत्वा अवदत् यत् अस्मिन् अवधौ कठोराः उपायाः स्वीकृताः सन्ति, अग्रिम-काले तु तस्मादपि अधिका कठोर-कार्या विधास्यन्ते। तस्य एतत् वक्तव्यं अजमलेन मुख्यमन्त्रिणं प्रति प्रदत्तस्य आव्हानात्मक-वक्तव्यस्य प्रत्युत्तररूपेण आगतम्।
मुख्यमन्त्री डॉ.सरमा बिहपुरिया-नाम्नि स्थले आयोजितां निर्वाचन-सभां सम्बोधयन् आसीत्, यत्र सः भाजपा-प्रत्याशी भूपेन-बोरा-इत्यस्य समर्थनार्थं प्रचारं कृतवान्। सः विश्वासं व्यक्तवान् यत् दलाय जन-समर्थनं प्राप्ते क्षेत्रे शीघ्र-गत्या विकासः भविष्यति।
अस्मिन् अवसरे भूपेन-बोरा उक्तवान् यत् बिहपुरिया-क्षेत्रे अग्रिम-पञ्च-वर्षेषु विकासस्य गतिः गत-दश-वर्षेषु तुलनया चतुर्गुणा अधिका भविष्यति तथा क्षेत्रं नूतनां दिशां प्राप्स्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता