श्रमिक सम्मेलने शनिवासरे मुख्यमंत्री सायः श्रमिकेभ्यः तदीयपरिजनेभ्यश्च 27.15 कोटिरुप्यकाणि करिष्यन्ते अंतरितानि
रायपुरम्, 27 मार्चमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसाय-महोदयस्य मुख्यातिथ्ये शनिवासरे २८ मार्च तिथौ मध्याह्ने १ वादने जशपुर-जनपदमुख्यालये वशिष्ठ-समुदाय-सभागृहे जिला-स्तरीयः श्रमिक-सम्मेलनः आयोज्यते। अस्य कार्यक्रमस्य अध्यक्षता प्रदेशस्य श्रममन
मुख्यमंत्री विष्णु देव साय


रायपुरम्, 27 मार्चमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसाय-महोदयस्य मुख्यातिथ्ये शनिवासरे २८ मार्च तिथौ मध्याह्ने १ वादने जशपुर-जनपदमुख्यालये वशिष्ठ-समुदाय-सभागृहे जिला-स्तरीयः श्रमिक-सम्मेलनः आयोज्यते। अस्य कार्यक्रमस्य अध्यक्षता प्रदेशस्य श्रममन्त्री लखनलालदेवाङ्गन-महोदयः करिष्यति।

मुख्यमन्त्रिणा श्रमविभागस्य अन्तर्गतं द्वादशसु विभिन्नेषु श्रमिक-कल्याणकारी-योजनासु अन्तर्भूतानां ७९,३४० निर्माण-श्रमिकाणां तेषां परिवारजनानां च कृते २७.१५ कोटि-रूप्यकाणां धनराशिः प्रत्यक्ष-लाभ-हस्तान्तरण-प्रणाल्या तेषां बैंक-खातेषु प्रत्यक्षतया हस्तान्तरिता भविष्यति।

अस्मिन् कार्यक्रमे वित्तमन्त्री ओपी-चौधरी-महोदयः, लोकसभा-सांसदः राधेश्याम-राठिया-महोदयः, छत्तीसगढ-भवन-तथा-अन्य-सन्निर्माण-कर्मकार-कल्याण-मण्डलस्य अध्यक्षः डॉ-रामप्रतापसिंह-महोदयः इत्यादयः अन्ये जनप्रतिनिधयः अपि विशिष्टातिथयः रूपेण उपस्थिताः भविष्यन्ति।

छत्तीसगढ-भवन-तथा-अन्य-सन्निर्माण-कर्मकार-मण्डलस्य सचिवः गिरीशरामटेक-महोदयः अवदत् यत्—

दीदी-ई-रिक्शा-सहायता-योजनायाः अन्तर्गतं १४ हितग्राहिभ्यः १४.३२ लक्ष-रूप्यकाणि,

मिनीमाता-महतारी-योजना अन्तर्गतं १९६० श्रमिकेभ्यः ३.९२ कोटि-रूप्यकाणि,

मुख्यमन्त्री-निर्माण-मजदूर-सुरक्षा-उपकरण-सहायता-योजना अन्तर्गतं २९७ श्रमिकेभ्यः ४४.५५ लक्ष-रूप्यकाणि,

मुख्यमन्त्री-निर्माण-श्रमिक-मृत्यु-दिव्याङ्ग-सहायता-योजना अन्तर्गतं २० हितग्राहिभ्यः २० लक्ष-रूप्यकाणि,

मुख्यमन्त्री-नोनी-बाबू-मेधावी-शिक्षा-सहायता-योजना अन्तर्गतं ३२५ श्रमिक-बालकेभ्यः ३८.८८ लक्ष-रूप्यकाणि,

मुख्यमन्त्री-नोनी-सशक्तिकरण-सहायता-योजना अन्तर्गतं ३०४० श्रमिकेभ्यः ६.०८ कोटि-रूप्यकाणि दास्यन्ते।

तथैव—

मुख्यमन्त्री-नौनिहाल-छात्रवृत्ति-योजना अन्तर्गतं ७१,२२० श्रमिक-बालकेभ्यः १४.५३ कोटि-रूप्यकाणि,

मुख्यमन्त्री-श्रमिक-औजार-सहायता-योजना अन्तर्गतं ११४२ श्रमिकेभ्यः ३९.५० लक्ष-रूप्यकाणि,

मुख्यमन्त्री-श्रमिक-सियान-सहायता-योजना अन्तर्गतं ५२६ हितग्राहिभ्यः १.५२ कोटि-रूप्यकाणि,

मुख्यमन्त्री-सायकल-सहायता-योजना अन्तर्गतं ७८४ श्रमिकेभ्यः २९.०४ लक्ष-रूप्यकाणि,

मुख्यमन्त्री-निर्माण-श्रमिक-आवास-सहायता-योजना अन्तर्गतं ९ हितग्राहिभ्यः ९ लक्ष-रूप्यकाणि,

मुख्यमन्त्री-निर्माण-श्रमिक-दीर्घायु-सहायता-योजना अन्तर्गतं ३ श्रमिकेभ्यः ६० सहस्र-रूप्यकाणि च हस्तान्तरितानि भविष्यन्ति।

हिन्दुस्थान समाचार