Enter your Email Address to subscribe to our newsletters

नवरात्रे कन्या पूजनं भारतीय संस्कृतेः सनातन परंपराणां च महत्वपूर्णम् अंगम् -याेगी
गोरखपुरम्, 27 मार्चमासः (हि.स.)। पवित्र-चैत्र-नवरात्र-अवसरे शुक्रवासरे गोरक्षमंदिरस्थिते गोरक्षनाथ-मन्दिरे पीठाधीश्वरः तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पारम्परिक-विधिना कन्या-पूजनम् अकरोत्।
अस्मिन् अवसरॆ सः लघु-कन्यानां चरणान् प्रक्षाल्य तासां पूजन-अर्चनं कृत्वा ताभ्यः भोजनं दत्त्वा आशीर्वादं प्राप्तवान्। मुख्यमन्त्री योगी आदित्यनाथः विधिवत् मन्त्र-उच्चारणेन सह कन्याभ्यः चुनरीं आवेष्ट्य तिलकं कृतवान् तथा श्रद्धया तासां पादौ अपि प्रक्षालितवान्। ततः अनन्तरं कन्याभ्यः प्रसादरूपेण भोजनं परिविष्टम्।
मन्दिर-परिसरे अस्य धार्मिक-आयोजनस्य विशेषं महत्त्वम् आसीत् तथा बहवः श्रद्धालवः अस्य कार्यक्रमस्य साक्षिणः अभवन्।
अस्मिन् अववरे योगी आदित्यनाथः उक्तवान् यत् नवरात्र-पर्वणि कन्या-पूजनं भारतीय-संस्कृतेः सनातन-परम्परायाः च महत्त्वपूर्णः अङ्गः अस्ति, यत्र नारी-शक्तिः देवी-स्वरूपेण पूज्यते। सः सर्वेषां प्रदेशवासिनां सुख-समृद्धि-कल्याणाय अपि कामनाम् अकरोत्।
गोरक्षनाथ-मन्दिरे प्रतिवर्षवत् अस्मिन् वर्षे अपि नवरात्र-समये विविधाः धार्मिक-अनुष्ठानाः पूजन-कार्यक्रमाः च भव्यतया आयोज्यन्ते, यत्र श्रद्धालूनां विशाल-समूहः समागच्छति।
---------------
हिन्दुस्थान समाचार