मुख्यमंत्री केंद्रस्य निर्णयं स्वागतीकृतवान्, कथितवान्-जनतायै लप्स्यते आर्थिकसंबलम्
जयपुरम्, 27 मार्चमासः (हि.स.)। मुख्यमन्त्री भजनलाल शर्मा सामाजिक माध्यम ‘एक्स’ इति सञ्चारमञ्चे लेखनं कृत्वा पेट्रोल-डीजलयोः उपरि केन्द्रीय उत्पाद शुल्कस्य न्यूनीकरणस्य निर्णयस्य स्वागतं कृतवान्। तेन उक्तं यत् वैश्विक-आह्वानानां अस्मिन् काले नरेन्
फाइल


जयपुरम्, 27 मार्चमासः (हि.स.)।

मुख्यमन्त्री भजनलाल शर्मा सामाजिक माध्यम ‘एक्स’ इति सञ्चारमञ्चे लेखनं कृत्वा पेट्रोल-डीजलयोः उपरि केन्द्रीय उत्पाद शुल्कस्य न्यूनीकरणस्य निर्णयस्य स्वागतं कृतवान्। तेन उक्तं यत् वैश्विक-आह्वानानां अस्मिन् काले नरेन्द्र मोदी इत्यस्य नेतृत्वं देशाय सुरक्षा-कवचवत् सिद्धं भवति।

मुख्यमन्त्री स्वसन्देशे लिखितवान् यत् पेट्रोलस्य केन्द्रीय उत्पाद शुल्कं ₹13 इत्यस्मात् घटयित्वा ₹3 प्रति लीटर तथा डीजलस्य ₹10 इत्यस्मात् शून्यपर्यन्तं कर्तुं निर्णयः अतीव प्रशंसनीयः अस्ति। अस्य निर्णयस्य प्रभावेन देशस्य लक्षशः परिवाराणां आर्थिक-राहतिः भविष्यति।

तेन उक्तं यत् अयं उपायः सामान्यजनान् वैश्विक-बाजारस्य उत्थान-पतनजन्य-अनिश्चितताभ्यः अपि पर्याप्तया राहतिं प्रदास्यति।

मुख्यमन्त्री शर्मा नागरिकान् प्रति आह्वानं कृतवान् यत् ते अफवाहाभ्यः दूरं स्थित्वा एकतया राज्यस्य राष्ट्रस्य च प्रगतौ स्वयोगदानं कुर्वन्तु।

राजनीतिक-आर्थिक-विश्लेषकानां मते, केन्द्रीय-सरकारस्य अस्य निर्णयस्य प्रत्यक्षः प्रभावः सामान्यजनस्य व्यये दृश्यते तथा च महाङ्ग्याः दाबं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति।

---------------

हिन्दुस्थान समाचार