रसोई गैस इत्यस्य उत्पादने 40प्रतिशतं वृद्धिः, कमर्शियल एलपीजी इत्यस्य आपूर्तिः 70प्रतिशतं यावत् संजाता - केंद्रम्
नव दिल्ली, 27 मार्चमासः (हि.स)। पश्चिम एशियायुद्धस्य कारणेन वैश्विकविघ्नेषु सति अपि भारतदेशेन कच्चतैलस्य पेट्रोलस्य डीजलस्य एलपीजी तथा पीएनजी इत्येषां पर्याप्ता उपलब्धता सुनिश्चिता अस्ति। सहैव गृहोपयोगी रसोईगैसस्य उत्पादनम् प्रायः चत्वारिंशत् प्र
प्रेस को संबोधित करते पेट्रोलियम एवं प्राकृतिक गैस मंत्रालय की संयुक्त सचिव सुजाता शर्मा


प्रेस को संबोधित करते पेट्रोलियम एवं प्राकृतिक गैस मंत्रालय की संयुक्त सचिव सुजाता शर्मा और अन्य


नव दिल्ली, 27 मार्चमासः (हि.स)।

पश्चिम एशियायुद्धस्य कारणेन वैश्विकविघ्नेषु सति अपि भारतदेशेन कच्चतैलस्य पेट्रोलस्य डीजलस्य एलपीजी तथा पीएनजी इत्येषां पर्याप्ता उपलब्धता सुनिश्चिता अस्ति। सहैव गृहोपयोगी रसोईगैसस्य उत्पादनम् प्रायः चत्वारिंशत् प्रतिशतपर्यन्तं वर्धितम् अस्ति। गार्हस्थ्योपयोगाय आपूर्तिः प्राधान्येन प्रदत्ता अस्ति, यदा तु वाणिज्यिक एलपीजी आपूर्तिः शनैः शनैः सप्ततिप्रतिशतपर्यन्तं पुनः स्थापिताऽस्ति, यस्मिन् प्रमुखक्षेत्रेषु विशेषं ध्यानं कृतम् अस्ति।

वैश्विकस्तरे कच्चतैलमूल्यानां वृद्धौ अपि केन्द्रसरकारस्य हस्तक्षेपेन इन्धनमूल्यानि स्थिराणि एव स्थितानि सन्ति। पेट्रोलियमप्राकृतिकगैसविभागस्य संयुक्तसचिवा सुजाता शर्मा उक्तवती यत् केन्द्रसरकारेण उत्पादशुल्के कटौती कृता अस्ति। एतस्य भारः उपभोक्तृषु न आरोपितः, अपितु स्वयमेव वहितः, येन पेट्रोल तथा डीजल उपरि उत्पादशुल्कं दशदशरूप्यकपर्यन्तं न्यूनं कृतम्।

अप्रैल २०२२ तः आरभ्य पेट्रोल तथा डीजलमूल्यानि वा न्यूनानि अभवन् अथवा स्थिराणि एव स्थितानि। अप्रैल २०२५ मध्ये अपि यदा उत्पादशुल्कवृद्धिः अभवत्, तदा अपि तस्य भारः उपभोक्तृषु न आरोपितः।

सुजाता शर्मा उक्तवती यत् पीएनजी विस्तारकार्यं तीव्रतया क्रियते, यस्य अन्तर्गतं प्रतिदिनं दशसहस्राधिकाः नूतनसंबद्धताः दीयन्ते। सहैव संचयनदुरुपयोगस्य विरुद्धं कार्यवाही अपि तीव्रा कृता, यस्य अन्तर्गतं त्रिसहस्राधिकाः छापाः कृताः, शताधिकाः एफआईआर अभिलिखिताः, गैसवितरकाणां विरुद्धं कठोरकार्यवाही अपि कृता।

सरकारेण पुनः स्पष्टं कृतं यत् आपूर्तिः पर्याप्ता अस्ति, नागरिकेभ्यः अपि आग्रहः कृतः यत् ते अफवाहासु न विश्वसन्तु तथा भीताः भूत्वा अनावश्यकक्रयम् न कुर्वन्तु।

सुजाता शर्मा उक्तवती यत् वयं युद्धसदृश्यस्थितौ वर्तामहे। पश्चिम एशियायां वर्तमानयुद्धेन कच्चतैल एलपीजी एलएनजी इत्येषां आपूर्तिः प्रभाविताऽस्ति। अन्तरराष्ट्रीयबाजारे मूल्यानि अपि अतीव वर्धितानि सन्ति, तथापि भारतसरकारेण अनेकेषु स्तरषु महत्वपूर्णनिर्णयाः गृहीत्वा स्थितिः प्रभावीरीत्या नियन्त्रिता।

एतेषां उपायानां फलस्वरूपं १४ मार्चतः २६ मार्चपर्यन्तं वाणिज्यिकोपभोक्तृभ्यः प्रायः त्रिंशत्सहस्रटनपरिमितिः एलपीजी आपूर्तिः कृता। एतत् सुनिश्चितं कृतम् यत् भोजनालयाः ढाबाः होटेलाः औद्योगिकभोजनालयाः प्रवासीजनाः तथा श्रमिकाः प्राधान्येन आपूर्तिं प्राप्नुयुः।

सूचनाप्रसारणविभागस्य संयुक्तसचिवः सेंथिल राजन अपि उक्तवान् यत् सर्वे नागरिकाः अफवाहासु न विश्वसन्तु तथा मिथ्यावार्ताभ्यः सावधानाः भवन्तु। पूर्वं एलपीजीअभावस्य मिथ्याज्ञानप्रसारेण जनाः भीताः भूत्वा अत्यधिकबुकिंग कर्तुं आरब्धवन्तः, किन्तु सा स्थितिः नियंत्रिता अभवत्।

तेन अपि उक्तं यत् कस्यचित् वस्तुनः अभावः नास्ति, अतः नागरिकानां पेट्रोलपम्पेषु धावनस्य आवश्यकता नास्ति। मिथ्याज्ञानप्रसारणस्य प्रयासाः क्रियन्ते, अतः जनाः तासु न विश्वसन्तु।

बन्दरगाहनौपरिवहनजलमार्गविभागस्य विशेषसचिवः राजेश कुमार सिन्हा उक्तवान् यत् गतचतुर्विंशतिघण्टासु खाडिक्षेत्रे कस्यापि भारतीयध्वजयुक्तजहाजस्य वा भारतीयनाविकस्य विषये काचित् नकारात्मकसूचना न प्राप्ता।

फारसखाड्यां विंशतिः भारतीयध्वजयुक्ताः जहाजाः सन्ति, येषु पंचशतचत्वारिंशत् भारतीयनाविकाः सन्ति, ते सर्वे सुरक्षिताः सन्ति। डीजीशिपिंगस्य डीजीकॉमकेन्द्रं चतुर्विंशतिघण्टाः कार्यं करोति।

तथा खाडिक्षेत्रस्य विभिन्नभागेभ्यः पञ्चविंशतिः भारतीयनाविकाः जहाजात् अवतीर्य सुरक्षितरूपेण भारतं प्रयतेत।

---------------

हिन्दुस्थान समाचार