‘जग वसंत’ जहाज एलपीजी धृत्वा सुरक्षितं प्राप्नोत् गुजरातस्य कांडलापटलम्
कच्छम्, 27 मार्चमासः (हि.स.)। मध्यपूर्वप्रदेशे वर्तमानतनावस्य तथा “स्ट्रेट् ऑफ होर्मुज्” इत्यस्य समुद्रमार्गे वर्धमानखतराणां मध्ये भारतदेशाय शान्तिदायिनी वार्ता समुपस्थिता। भारतस्य “जग वसन्त” इति नामकं जहाजम् एलपीजी वहन् शुक्रवासरे सुरक्षितरूपेण
જગ વસંત


कच्छम्, 27 मार्चमासः (हि.स.)।

मध्यपूर्वप्रदेशे वर्तमानतनावस्य तथा “स्ट्रेट् ऑफ होर्मुज्” इत्यस्य समुद्रमार्गे वर्धमानखतराणां मध्ये भारतदेशाय शान्तिदायिनी वार्ता समुपस्थिता। भारतस्य “जग वसन्त” इति नामकं जहाजम् एलपीजी वहन् शुक्रवासरे सुरक्षितरूपेण गुजरातराज्यस्य कण्डला-बन्दरगाहं प्राप्तम्।

वैश्विकस्तरे इन्धन-आपूर्तेः प्रभावितत्वस्य आशङ्कायां सति “जग वसन्त” इति विशालम् एलपीजी-वाहक-नौका अद्य सुरक्षितरूपेण गुजरातस्य कण्डला-बन्दरगाहं प्राप्तवती। अस्मिन् जहाजे प्रायः द्विचत्वारिंशत्सहस्रात् षट्चत्वारिंशत्सहस्रपर्यन्तं मेट्रिक-टन-परिमितं द्रवीकृत-पेट्रोलियम-गैस (एलपीजी) आनीता अस्ति। होर्मुज-उपसागरप्रदेशे वर्धमान-सैन्यतनावस्य मध्ये अस्य जहाजस्य सुरक्षितरूपेण गन्तव्यं प्राप्तिः केवलं तकनीकीदृष्ट्या न, अपि तु भारतस्य रणनीतिकदृष्ट्यापि महान् सफलतारूपेण परिगण्यते।

यदा एतत् विमानं कण्डला-बन्दरगाहं प्राप्तम्, तदा तस्मात् गैस-अपसारणस्य प्रक्रिया आरम्भाय सज्जता कृता। अधिकारिणां अनुसारं समुद्रे एव लघु-नौकासु एलपीजी-स्थानान्तरणकार्यं शीघ्रं आरभ्यते, येन गैस विविधेषु बॉटलिंग-केन्द्रेषु शीघ्रं प्रेषयितुं शक्यते।

गतदिनेषु एलपीजी तथा पेट्रोल-डीजल-अभावसम्बन्धि जनानां मध्ये चिन्ता-अपवादाः च प्रसृताः आसन्। तादृशे समये एतादृशस्य विशाल-भण्डारस्य देशे आगमनात् विपण्यां स्थिरता आगमिष्यति तथा जनानां विश्वासः वर्धिष्यते। सरकारपक्षतः अपि पुनः पुनः आश्वासनं दीयते यत् देशे पर्याप्तम् इन्धन-भण्डारम् उपलब्धम् अस्ति।

---------------

हिन्दुस्थान समाचार