Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, २७ मार्चमासः (हि.स.)। गोरक्षपीठाधीश्वरः उत्तर-प्रदेशस्य मुख्यमन्त्री च योगी-आदित्यनाथः शुक्रवासरे मध्याह्ने श्रीरामनवमी-महापर्वणि विधि-विधानपूर्वकं मर्यादा-पुरुषोत्तमस्य भगवतः श्रीरामस्य जन्मोत्सवं समाचरत्। तेन प्रभोः श्रीरामस्य पूजनं कृतम्, आरार्तिकीं तथा भगवतः बालस्वरूपं रामललां दोलने दोलयित्वा लोकमङ्गलस्य प्रार्थना कृता। अस्मिन् अवसरे मन्दिर-परिसरः प्रभोः श्रीरामस्य भजनैः गुंजायमानः आसीत्।
वासन्तिक-(चैत्र)-नवरात्रस्य नवमी-तिथौ शुक्रवासरे गोरखनाथ-मन्दिरे कन्या-पूजनस्य अनुष्ठानं सम्पन्नं कृत्वा मुख्यमन्त्री-योगी मन्दिर-परिसरस्थितं रामदरबारं प्राप्तवान्। तत्र प्रतिष्ठित-विग्रहाणां पूजनं कृत्वा आरार्तिकी कृता। प्रभोः रामस्य बालस्वरूपं पुष्पैः अलंकृत-दोलने विराजितं कृतम् आसीत्। मध्याह्ने द्वादशवादने सः दोलने विराजमानस्य श्रीरामस्य वैदिक-मन्त्र-उच्चारणेन सह पूजार्चनां कृतवान्। प्रभोः विग्रहं तिलकं कृत्वा माल्यार्पणं च कृत्वा आरार्तिकी कृता। पूजन-अनुष्ठानस्य पूर्णतया अनन्तरं योगी श्रद्धाभावेन बालस्वरूपं भगवन्तं दोलने अदोलयत्।
अनन्तरं मुख्यमन्त्री मन्दिर-परिसरस्य मुक्ताकाश-रङ्गमञ्चं गतवान्। तत्रापि दोलने विराजितस्य भगवतः श्रीरामस्य विधिपूर्वकं आराधना कृता तथा दोला दोलिता। मञ्चे तेन भगवान् रामः, गुरु-गोरखनाथः, महन्त-दिग्विजयनाथः तथा महन्त-अवेद्यनाथस्य चित्रेषु पुष्पाणि अर्पितानि। अस्मिन् अवसरे मुख्यमन्त्री प्रदेश-वासिनां सुख-समृद्धये भगवन्तं श्रीरामं प्रति प्रार्थनां कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता