प्रधानमंत्रिणा मोदिना मां सिद्धिदात्री प्रार्थिता यद्देशवासिनां लक्ष्यं कामनासिद्धये
नव दिल्ली, 27 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मातरं सिद्धिदात्रीं प्रणम्य देशवासिनां लक्ष्यसिद्धये शुभकामनाः अकरोत्। तेन देव्याः प्रति प्रार्थना कृता यत् सा सर्वेभ्यः भक्तेभ्यः स्वस्वलक्ष्यप्राप्तये आशीर्वादं ददातु। प्रधानमन्त्री म
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव दिल्ली, 27 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी मातरं सिद्धिदात्रीं प्रणम्य देशवासिनां लक्ष्यसिद्धये शुभकामनाः अकरोत्। तेन देव्याः प्रति प्रार्थना कृता यत् सा सर्वेभ्यः भक्तेभ्यः स्वस्वलक्ष्यप्राप्तये आशीर्वादं ददातु।

प्रधानमन्त्री मोदी अद्य एक्स माध्यमे स्वसन्देशे अलिखत् यत् मां सिद्धिदात्र्याः कृपया सर्वे उपासकाः स्वलक्ष्यप्राप्तौ सफलतां प्राप्नुयुः। अस्मिन् अवसरे तेन एकः संस्कृतश्लोकः अपि साझा कृतः—

“सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि। सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी॥”

अस्य श्लोकस्य अर्थः अस्ति यत् या देवी सिद्धैः गन्धर्वैः यक्षैः असुरैः देवताभिश्च सदा सेव्यते, सा सिद्धिदात्री देवी अस्माकं कल्याणं करोतु तथा अस्मभ्यं सिद्धयः ददातु।

प्रधानमन्त्री मोदी स्वसन्देशे उक्तवान् यत् देवीमातुः साधनया भक्तानां मध्ये अद्भुतशक्तेः संचारः भवति, या तान् सफलतायाः दृढविश्वासेन पूरयति।

---------------

हिन्दुस्थान समाचार