राष्ट्रपतिः सीपीईएस, आईईएस अधिकारिभ्यो राष्ट्र निर्माणे मुख्यभूमिकां निर्वोढुम् आह्वानं कृतम्
नवदिल्ली, 27 मार्चमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे राष्ट्रपति भवनम् नवी दिल्ली स्थिते केन्द्रीय विद्युत् अभियांत्रिकी सेवा (सीपीईएस) तथा भारतीय आर्थिक सेवा (आईईएस) इत्ययोः अधिकारिभिः सह मिलित्वा तान् राष्ट्रस्य समग्रविकासे महत
राष्ट्रपति द्रौपदी मुर्मु शुक्रवार को राष्ट्रपति भवन में केंद्रीय विद्युत अभियांत्रिकी सेवा (सीपीईएस) और भारतीय आर्थिक सेवा (आईईएस) के अधिकारियों से मुलाकात के दौरान


नवदिल्ली, 27 मार्चमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे राष्ट्रपति भवनम् नवी दिल्ली स्थिते केन्द्रीय विद्युत् अभियांत्रिकी सेवा (सीपीईएस) तथा भारतीय आर्थिक सेवा (आईईएस) इत्ययोः अधिकारिभिः सह मिलित्वा तान् राष्ट्रस्य समग्रविकासे महत्त्वपूर्णं योगदानं दातुं प्रेरितवती।

राष्ट्रपतिः उक्तवती यत् एते अधिकारी राष्ट्रस्य प्रगतौ अग्रपङ्क्तौ स्थिताः सन्ति तथा तेषां निर्णयाः देशं दृढं आत्मनिर्भरं च कर्तुं सहायकाः भविष्यन्ति। सा अधिकारिभ्यः समर्पणेन उत्साहेन च कार्यं कर्तुं उपदिष्टवती तथा चुनौतयः अवसररूपेण स्वीक्रियन्ताम् इति सूचयित्वा नवोन्मेषस्य निरन्तर अध्ययनस्य च भावनां धारयितुं बलं दत्तवती।

राष्ट्रपतिः उक्तवती यत् विद्युत् औद्योगिकविकासस्य नवोन्मेषस्य जीवनस्तरस्य उन्नतेः च आधारशिला अस्ति। एषा सेवा उत्पादन प्रेषण वितरण क्षेत्रेषु महत्त्वपूर्णं योगदानं ददाति तथा देशस्य ऊर्जा संरचनां सुदृढां कर्तुं अस्याः भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।

सा अपि अवदत् यत् परिवर्तमाने वैश्विक देशीय परिदृश्ये आर्थिकनीतिनिर्माणं तस्य प्रभावी कार्यान्वयनं च पूर्वात् अधिकं महत्त्वपूर्णं जातम्। एतेषां अधिकारिणां भूमिका सतत विकासस्य सुनिश्चितौ मूल्यवृद्धि नियन्त्रणे रोजगार सृजने तथा असमानता न्यूनतायां अत्यन्तं महत्त्वपूर्णा भविष्यति।

अन्ते सा अधिकारिभ्यः उपदिष्टवती यत् ते सदा स्मरन्तु प्रत्येकस्य आंकडस्य पृष्ठतः मानवीया कथा निहिता अस्ति। आर्थिकनीतेः वास्तविक परीक्षा केवलं आंकडाः न अपि तु तस्य परिणामाः सन्ति। तस्य उद्देशः जनानां जीवनं विशेषतः दुर्बलवर्गस्य जीवनं उत्तमं कर्तुम् एव भवितुमर्हति।

-----------

हिन्दुस्थान समाचार