मुख्यमंत्री धामी प्रधानमंत्रिणा सह मेलनं, रेपिड रेलयानाय हरिद्वारम्-ऋषिकेषं यावत् विस्तारीकर्तुम् आग्रहः
नव दिल्ली, 27 मार्चमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी शुक्रवासरे नवी दिल्ली नगरे प्रधानमन्त्रिणा नरेन्द्र मोदीना सह शिष्टाचारमेलनं कृतवान्। मुख्यमन्त्रिणा राज्यस्य विकासे केन्द्रसरकारस्य सहयोगस्य मार्गदर्शनस्य च कृते प्रधानमन
मुख्यमंत्री पुष्कर सिंह धामी नई दिल्ली में प्रधानमंत्री  मोदी कोस्वरूप मां सुरकंडा देवी की प्रतिकृति भेंट करते हुए।


नव दिल्ली, 27 मार्चमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी शुक्रवासरे नवी दिल्ली नगरे प्रधानमन्त्रिणा नरेन्द्र मोदीना सह शिष्टाचारमेलनं कृतवान्। मुख्यमन्त्रिणा राज्यस्य विकासे केन्द्रसरकारस्य सहयोगस्य मार्गदर्शनस्य च कृते प्रधानमन्त्रिणः प्रति कृतज्ञता व्यक्ता तथा तं उत्तराखण्डागमनाय निमन्त्रितवान्। मुख्यमन्त्री धामीः मेरठनगरात् हरिद्वारं ऋषिकेशं च यावत् रेपिड रेलस्य विस्तारं कर्तुं प्रार्थितवान्। भेंटसमये मुख्यमन्त्री प्रधानमन्त्रिणं रामनवमीपर्वणः शुभाशंसाः अपि अदात्। सः उक्तवान् यत् केन्द्रसरकारस्य सहयोगेन उत्तराखण्डः विकासस्य नूतन आयामान् स्थापयति।

अस्मिन् अवसरे मुख्यमन्त्री प्रधानमन्त्रिणं टिहरीस्थितायाः शक्तिपीठस्य माता सुरकण्डा देव्या प्रतिकृतिं बद्रीगव्यघृतं विभिन्नजनपदानां पञ्चप्रकारकाणि राजमाषाणि मधु च उपहाररूपेण अदात्। भेंटसमये मुख्यमन्त्री हरिद्वारकुम्भ 2027 कृते पञ्चशतकोटिरूप्यकाणां साहाय्याय नदी संयोजनपरियोजनायाः अन्तर्गतं नेशनल वाटर डेवलपमेंट एजेंसी इत्यस्य व्यवहार्यता अध्ययनाय राजाजी राष्ट्रियायाः उद्यानस्थितायाः चौरासी कुटिया विकासाय शतकोटि रूप्यकाणां स्वीकृतेः पिथौरागढस्य नैनी सैनी विमानपट्टिकायाः कृते एमओयू तथा चारधामयात्रायाः सुरक्षित हेलीसेवायाः सञ्चालनाय प्रधानमन्त्रिणः विशेषधन्यवादं प्रकटितवान्।

तथा ऋषिकेशे विद्युत् रेखाणां भूमिगतकरणाय चम्पावत बाइपास देहरादून रिंग रोड देहरादून मसूरी मार्ग इत्यादीनां आधारभूतपरियोजनानां स्वीकृतेः अपि आभारं व्यक्तवान्। मुख्यमन्त्री प्रधानमन्त्रिणं तस्य पूर्वदौरे दत्तानां सुझावानां अनुपालनस्य अद्यतनकार्याणां विषये अवगतवान्। धामी उक्तवान् यत् उत्तराखण्डं वैश्विक विवाहगन्तव्यरूपेण विकसितुं विविधेषु स्थलेषु कार्यं क्रियते। आध्यात्मिक आर्थिक क्षेत्ररूपेण अपि बहवः प्रदेशाः चिन्हिताः सन्ति तथा शीतकालीनयात्रायाः आरम्भात् श्रद्धालूनां सङ्ख्या विशेषतया वर्धिता अस्ति।

सः अवदत् यत् आदि कैलाशयात्रायां श्रद्धालूनां सङ्ख्या तीव्रतया वर्धते तथा साहसिकपर्यटनस्य प्रोत्साहनाय नदीराफ्टिंग पैराग्लाइडिंग कयाकिंग इत्यादीनि क्रियाकलापानि प्रवर्ध्यन्ते। स्थानीयोत्पादनां प्रोत्साहनार्थं हाउस ऑफ हिमालयाज ब्राण्डेन तानि राष्ट्रीय अन्तरराष्ट्रीय बाजारं प्रति प्रेष्यन्ते।

मुख्यमन्त्री दिल्ली मेरठ क्षेत्रीय त्वरित पारगमन प्रणालीस्य विस्तारं हरिद्वारं ऋषिकेशं च यावत् कर्तुं निवेदनं कृतवान्। अपि च राज्ये रक्षा उपकरण निर्माण एककानां स्थापना कोटद्वार हरिद्वार देहरादून इत्येषु स्थानेषु डिफेंस औद्योगिक केन्द्रस्य विकासः चिन्यालीसौड विमानपट्टिकायाः विस्तारः च केन्द्रात् अपेक्षितः।

सः दिल्ली हल्द्वानी द्रुतमार्गनिर्माणस्य प्रस्तावं प्रस्तुत्य उक्तवान् यत् अस्य निर्माणेन औद्योगिकक्षेत्रेषु पर्यटनस्थलेषु च गमनागमनं सुलभं भविष्यति। ऋषिकेश कर्णप्रयाग रेलपरियोजना टनकपुर बागेश्वर रेलरेखा हरिद्वार देहरादून रेलरेखायाः द्विगुणीकरणं ऋषिकेश उत्तरकाशी रेलनिर्माणं च अपि प्रार्थितम्।

मुख्यमन्त्री प्रधानमन्त्रिणं राज्ये विविधपरियोजनानां लोकार्पण शिलान्यासकार्यक्रमेषु भागग्रहणाय आमन्त्रितवान्। प्रस्तावितेषु कार्यक्रमेषु दिल्ली देहरादून द्रुतमार्गः टिहरी पम्प्ड स्टोरेज संयंत्रः पन्तनगर विमानपत्तनविस्तारः बनबसा स्थलसीमापरियोजना च सम्मिलिताः।

राज्यस्य योजनानाम् उपलब्धीनां च विषये सः उक्तवान् यत् होमस्टे योजनायाः अन्तर्गतं षट्सहस्राधिकाः इकाइयः पञ्जीकृताः सन्ति तथा उत्तरास्टेज़ पोर्टलद्वारा स्थानीयजनाः लाभं प्राप्नुवन्ति। बागवानी क्षेत्रे उत्कृष्टताकेन्द्राणि स्थाप्यन्ते तथा वाइब्रेंट विलेज कार्यक्रमेण सीमावर्तीप्रदेशेषु रोजगारसृजनं प्रवर्ध्यते।

मुख्यमन्त्री सौरस्वजीविका योजना मुख्यमन्त्री उद्यमशाला योजना देवभूमि परिवार योजना इत्यादीनां योजनानां उल्लेखं कृत्वा उक्तवान् यत् एतेन ग्रामीण अर्थव्यवस्था सुदृढा भवति। अग्निवीर आरक्षण नियमावली 2025 तथा उत्तराखण्ड जन विश्वास विधेयक 2026 इत्यनेन प्रशासनिक सुधारः पारदर्शिता च सुनिश्चिता।

अन्ते सः उक्तवान् यत् राज्ये निवेशप्रोत्साहनाय ईज ऑफ डूइंग बिजनेस उन्नयनाय च विविधक्षेत्रेषु व्यापकसुधाराः कृताः।

हिन्दुस्थान समाचार