प्रभु श्री रामो भारतीय चेतनायाः आदर्शः : योगी आदित्यनाथः
-मुख्यमंत्री योगी रामनवम्यां प्रदेशवासिभ्योऽददात् दशुभकामनाः लखनऊ, 27 मार्चमासः (हि. स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन रामनवमीपर्वणि प्रदेशवासिभ्यः हार्दिकाः शुभाशयाः प्रदत्ताः। तेन स्वस्य सामाजिकमाध्यममञ्चे लिखितम् यत् धर्मस्य सत्यस्य म
मुख्यमंत्री योगी


-मुख्यमंत्री योगी रामनवम्यां प्रदेशवासिभ्योऽददात् दशुभकामनाः

लखनऊ, 27 मार्चमासः (हि. स.)।

मुख्यमन्त्रिणा योगिना आदित्यनाथेन रामनवमीपर्वणि प्रदेशवासिभ्यः हार्दिकाः शुभाशयाः प्रदत्ताः। तेन स्वस्य सामाजिकमाध्यममञ्चे लिखितम् यत् धर्मस्य सत्यस्य मर्यादायाश्च श्रेष्ठतमप्रतीकः प्रभुः श्रीरामः, तस्य पावनजन्मोत्सवः ‘श्रीरामनवमी’ इत्यस्य अवसरः सर्वेभ्यः श्रद्धालुभ्यः प्रदेशवासिभ्यश्च हार्दिकाः अभिनन्दनाः।

मुख्यमन्त्री अवदत् यत् प्रभुः श्रीरामः भारतीयचेतनायाः स आदर्शः अस्ति यस्मिन् करुणाया कर्तव्यस्य च अद्भुतं संतुलनं दृश्यते। तस्य जीवनं अस्मान् स्मारयति यत् शक्तेः सौन्दर्यं मर्यादायां निहितम् अस्ति, विजयस्य च वास्तविकः अर्थः लोकमङ्गले अस्ति।

रामनवमीपर्वणः अयं पावनः दिवसः अस्मान् प्रेरयति यत् वयं स्वस्य आचरणे सत्यं, व्यवहारे करुणां, समाजे समरसतां च स्थापयेम, एतदेव ‘रामत्वस्य’ यथार्थः उत्सवः अस्ति। प्रभोः श्रीरामस्य कृपया भवतां सर्वेषां जीवने शान्तिः संतुलनं सद्भावश्च सदा विराजन्ताम्, इति मम शुभाशयाः। जय श्रीराम!

-----------

हिन्दुस्थान समाचार